का व्य योगः - शरद्वर्णनम्
कुमुदश्शरदम्भांसि योग्यतालक्षणं ययुः ॥
अवबोधर्मनांसीव समत्वममलात्मनाम् ॥ ६॥
तारकाविमले व्योम्नि रराजाखण्डमण्डलः ॥
चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥ ७ ॥
शनकैश्शनकंस्तीरं तत्यजुश्च जलाशयाः ॥
ममत्वं क्षेत्रपुत्रादिरूढमुच्चैर्यथा बुधाः ॥ ८ ॥
पूर्वं त्यक्तैस्सरोऽम्भोभिहंसा योगं पुनर्ययुः ||
क्लेशंःकुयोगिनोऽशेषैरन्तरायहता इव ॥ ९ ॥
निभृतोऽभवदत्यर्थं समुद्रः स्तिमितोदकः ॥
क्रमावाप्त महायोगो निश्चलात्मा यथा यतिः ॥ १० ॥
सर्वत्रातिप्रसन्नानि सलिलानि तथाभवन् ॥
ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥ ११ ॥
बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् ||
योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ॥ १२ ॥
सूर्यांशुजनितं तापं निन्ये तारापतिः शमम् ॥
अहंमानोद्भवं दुःखं विवेकः सुमहानिव ॥ १३ ॥
नभसोऽन्दं भुवः पङ्कं कालुष्य चाम्भसशरत् ॥
इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥ १४ ॥
प्राणायाम इवाम्भोभिस्सरसां कृतपूरकैः ॥
अभ्यस्यतेऽनुदिवसं रेचका कुम्भकादिभिः ॥ १५ ॥
विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजे ॥
ददर्शेन्द्रमहारम्भायोद्यतांस्तान्त्रजौकसः ॥ १६ ॥
कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् ॥
कौतूहलादिदं वाक्यं प्राह वृद्धान्महामति ॥ १७ ॥
कोऽयं शक्रमखो नाम येन वो हर्ष आगतः ॥
प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम ॥ १८ ॥
१७
१२९