१०६
पुराणकाव्यस्तोत्रसुधा ।
चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् ॥
शिलतॄणाङकुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥११॥
दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम् ॥
घन रजस्वलं दर्शयन्मुहुर्मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥
प्रणतकामदं पद्मजाचितं घरणिमण्डनं ध्येयमापदि ||
चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिन् ॥ १३ ॥
सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् ॥
इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥
अटति यद्भवानन्हि काननं त्रुटियुगायते त्वामपश्यताम् ॥
कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥
पतिसुतान्वयभ्रातृबान्धवानतिविलङघ्य तेऽन्त्यच्युतागताः ॥
गतिविदस्तवो गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥
रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् ॥
बृहदुरः श्रियो वोक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥
व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् ॥
त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥१८॥
यत्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ||
तेनाटवीमटसि तद् व्ययते न किस्वित्
कूर्पादिभिर्भमति घोर्भवदायुषां नः ॥ १९ ॥
गोषीसान्त्वनम्
(अ. ३२)
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रघा ॥
रुरुदु: सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १ ॥
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ||
पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २ ॥
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः ॥
उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् ॥ ३ ॥