का व्य यो गः - गोपीगीतम्
॥
तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः
तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ॥ ४४ ॥
पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः ॥
समवेता जगुः कृष्णं तदागमनकांक्षिताः ॥ ४५ ॥
गोप्य ऊचु-
गोपीगीतम्
(अ. ३१)
१०५
जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि ॥
दयित दृश्यतां दिक्षु तावकास्त्वयि वृतासवस्त्वां विचिन्वते ॥ १ ॥
शरददाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ॥
सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह कि वधः ॥ २ ॥
विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् ॥
वृषमयात्मजाद् विश्वतोभयादृषभ ते वयं रक्षिता मुहुः ॥ ३ ॥
न खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् ॥
विखनसाथितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ ४ ॥
विरचिताभयं वृष्णिधुर्यं ते चरणमीयुषां संसृतेर्भयात् ॥
करसरोरुहं कान्त कामदं शिरसि घेहि नः श्रीकरग्रहम् ॥ ५ ॥
व्रजजनातिन् वीर योषितां निजजनस्मयध्वंसनस्मित ॥
भज सखे भवत्किझकरी: स्म नो जलरुहाननं चारु दर्शय
प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् ॥
फणिफणापितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण ॥
विधिकरीरिमा वीर मुह्यतीरधरसीघुनाऽऽप्याययस्व नः ॥ ८ ॥
तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् ॥
श्रवणमङ्गलं श्रीमदाततं भुवि गुणन्ति ते भूरिदा जनाः ॥ ९ ॥
प्रहसितं प्रियं प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् ॥
रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥
7
१४