६६
पुराणकाव्यस्तोत्रसुधा ।
३५२ सर्वस्य विद्यते प्रांतो न वांछायाः कदाचन ॥
यथा यथा भवेल्लाभो वांछितस्य नृणामिह ||
हविषा कृष्णवमेव वृद्धि याति तथा तथा ॥ ४१ ॥
३५३ एवं ज्ञात्वा महाभागाः पुरुषेण विजानता ॥
दिवा तत्कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत् ॥ ४३ ॥
स्कान्द, नागरखं., १८४.
३५४ सूची सूत्रं तथा वस्त्रे समानयति सूचिका ॥
तद्वत्संसारसूत्रस्य तृष्णासूची विधीयते ॥ २९ ॥
३५५ यथा शृङ्गं रुरोः काये वर्द्धमाने हि वर्द्धते ॥
अनंतपारा दुर्वारा तृष्णा दुःखप्रदा सदा ॥
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत् ॥ ३० ॥
३५६ सन्तुष्टः को न शक्नोति फलैश्चापि हि वर्तितुम् ॥
सर्वोऽपीन्द्रियलोभेन सङकटान्यभिगाहते ॥ ३१ ॥
३५७ सर्वत्र संपदस्तस्य सन्तुष्टं यस्य मानलम् ॥
उपानद्दृढपादस्य ननु चर्मावृतेव भूः ॥ ३२ ॥
३५८ सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ||
कुतस्तद्धनलुब्धानां सुखं चाशान्तचेतसाम् ॥ ३३ ॥
३५९ कामं कामयमानस्य यदि कामः स सिद्धयति ॥
तथैनमपरः कामो भूयो विध्यति बाणवत् ॥ ३४ ॥
Ibid, प्र. क्षे. मा., २५५.
(८) सुख दुःखम्
३६० सौवर्ण मदिरापूर्णाभ्यन्तरं कलशं स्थितम् ॥
सम्प्राप्य को न गृह्णाति तद्गुणग्राम वित्पुमान् ॥ २ ॥
पद्म, ऋि. खं., ४.
३६१ आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते ॥
देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः ॥ ५ ॥
Ibid, ऋि. खं., २१.