व्यवहारचातुर्ययोगः– चिन्ता
२७१ तृष्णां मोहं तथा लोभमेतांश्चिन्ता हि प्रापयेत् ॥
पापमुत्पादयच्चिन्ता चिन्तिता च दिने दिने ॥ ३२ ॥
२७२ चिन्ताव्याधिप्रकाशाय नरकाय प्रकल्पयेत् ॥
तस्माच्चिन्तां परित्यज्य चानुवर्तस्व शोभने ॥ ३३ ॥
पद्म, भूमिखं., १४.
२७३ कुटुम्बचिन्ताकुलितस्य पुंसः श्रुतं च शीलं च गुणाञ्च सर्वे ॥
अपक्वकुम्भे निहिता इवाऽऽपः प्रयान्ति देहेन समं विनाशम् ॥१५८॥
Ibid, ६६.
२७४ युक्तमुक्तं पुराविद्भिचिन्तामूर्तिः सुदारुणा ॥
न भेषजर्लङ्घनैर्वा न चान्यैरुपशाम्यति ॥ ६८ ॥
२७५ चिन्ताज्वरी मनुष्याणां क्षुधां निद्रां बलं हरेत् ॥
रूपमुत्साहबुद्धि श्रीं जीवितं च न संशयः ॥ ६९ ॥
२७६ ज्वरो व्यतीते षडहे जीर्णज्वर इहोच्यते ॥
असौ चिन्ताज्वरस्तीव्रः प्रत्यहं नवतां व्रजेत् ॥ ७० ॥
२७७ धन्यो धन्वन्तरिर्नात्र चरकश्चरतीह न ||
नासत्यावपि नासत्यावत्र चिन्ताज्वरे किल ॥ ७९ ॥
स्कांद, काशीखं., १.
२७८ यश्चिन्ताख्यो ज्वरः पुंसामौषधर्नापि शाम्यति ॥ ११ ॥ Ibid, ४७
आत्मदोष (५) नीच-वभावः - जनः
२७९ अन्तर्दृढं बहिः श्लक्ष्णं बदरी फलवद्वचः ॥ १८३॥ पद्म, क्रि. खं.,
२८० गौरवेण विना वीर न सतां विक्रमो भवेत् ॥
ज्वलिष्यति कथं वन्हिविना काष्ठं घृतादिभिः ॥ ८१ ॥
२८१ न तु सिंहसमाः श्वानः सर्वाभरणभूषिताः ॥ ८२ ॥
२८२ सरोजिनोगुणं वेत्ति भृग एव न दर्दुरः ॥ १०४ ॥
२८३ शुभ्रस्य जलदस्यापि गगनैकस्य नोदयः ॥
तथापि नो भजेदन्यं विना चन्द्रं कुमुद्धती ॥ १०५ ॥
२८४ कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः ॥
कार्ये सिद्धे श्रमो न स्यादसिद्धे श्रम एव हि ॥ ११३ ॥
Tbid.