पुराणकाव्यस्तोत्रसुधा ।
दंष्ट्राकरालवदने शिरोमालाविभूषणे ॥
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ||२०||
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टे स्वघे ध्रुवे ||
महारात्रे महामाये नारायणि नमोऽस्तु ते ॥२१॥
मेघे सरस्वति वरे भूति बाभ्रवि तामसि ॥
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥ २२ ॥
सर्वतः पाणिपादान्ते सर्वतोऽक्षिशिरोमुखे ||
सर्वतः श्रवण घ्राणे नारायणि नमोऽस्तु ते ॥२३॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ||
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ २४ ॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ॥
२२२
पातु नः सर्वभोतिभ्यः कात्यायनि नमोऽस्तु ते ॥ २५॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ॥
त्रिशूलं पातु नो भीतेर्भद्रकाल नमोऽस्तु ते ॥ ६॥
हिनस्ति दंत्यतेजांसि स्वनेनापूर्य या जगत् ||
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥२७॥
असुरासुग्वसापं कर्चाचतस्ते करोज्ज्वलः ||
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम ॥२८॥
रोगानशेषानपहंसि तुष्टा ददासि कामान्सकलानभीष्टान् ॥
त्वामाश्रितानां न विपत्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ||२९||
एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् ||
रूपरने कंबहुवात्ममूर्ति कृत्वाम्बिके तत्प्रकरोति कान्या ॥३०॥
विद्यासु शास्त्रेषु विवेकदीपेष्वाद्येषु वाक्येषु च का त्वदन्या ||
ममत्वगर्ते तिमहान्घकारे विभ्रामयस्येतदतीव विश्वम् ||३१||
रक्षांसि यत्रोप्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र ||
दावानलो यत्र तथा ब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ||३२||
विश्वेश्वरी त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् ॥
विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनश्राः ॥३३॥