स्तो त्र यो गः- वराहस्तवनम्
नमोऽस्तु चन्द्रार्क अनेकरूप जलान्तविश्वस्थित चारुनेत्र ॥
नमोऽस्तु विष्णो शरणं व्रजाम: प्रवाहि नो मत्स्यतनुं विहाय ॥ २९ ॥
त्वया ततं विश्वमनन्तमूर्त्त पृथङन ते किञ्चिदिहास्ति देव ||
भवान्न चास्य व्यतिरिक्त मूत्तिस्त्वत्तो वयं ते शरणं प्रपन्नाः ॥ ३० ॥
खात्मेन्दुर्वाह्नश्च मनश्च रूपं पुराणमूर्तेस्तव चाब्जनेत्र ॥
क्षमस्व शम्भो यदि भक्तिहीनं त्वया जगद्भासति देवदेव ॥ ३१ ॥
विरुद्धमेतत्तव देवरूपं सुभाषणं सुस्वनमद्रितुल्यम् ॥
4
पुराणदेवेश जगन्निवास शमं प्रयाह्यच्युत तीव्रभानो ॥ ३२ ॥
नमाम सर्वे शरणं प्रपन्ना भयाच्च ते रूपमिदं च दृष्ट्वा ||
लोके समस्तं भवता विनाऽद्य न विद्यते देहगतं पुराणम् ॥ ३३ ॥
२३. वराहस्तवनम्
( विष्णु, १, ४ )
१७३
श्रीपराशर उवाच -
एवं संस्तूयमानस्तु पृथिव्या धरणोघरः ||
सामस्वरध्वनिः श्रीमाञ्जगर्ज परिघर्धरम् ॥ २५ ॥
ततः समुत्क्षिप्य घरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः ।।
रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ॥ २६ ॥
उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् ॥
प्रक्षालयामास हि तान्महाद्युतीन् सनन्दनादीनपकल्मषान्मुनीन् ॥२७॥
प्रयान्ति तोयानि खुराग्रविक्षत रसातलेऽवः कृतशब्दसन्ततिः ॥
श्वासानिलास्ताः परितः प्रयान्ति सिद्धा जना ये नियता वसन्ति ॥ २८॥
उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विगृह्य ॥
विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥ २९ ॥
तं तुष्टुवस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः ॥
सनन्दनाद्या ह्यतिनम्म्रकन्धरा धराघरं धोरतरोद्धतेक्षणम् ॥ ३० ॥
जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रवृक् ||
प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ॥ ३१ ॥