व्यवहारचातुर्ययोगः–
लोभ - आशा
३४३
३४२ पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयोः ॥
यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५ ॥
यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ॥
तत्प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणिः ॥ २६ ॥
३४४ देहोऽपि ममताताश्चेत्तर्ह्यसौ नात्मवत्प्रियः ॥
यज्जोर्यत्यपि देहेऽस्मिञ्जीविताशा बलीयसी ॥ ५३॥
३४५ तस्मात्प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् ॥
तदर्थमेव सकलं जगदेतच्चराचरम् ॥ ५४ ॥
३४६ आशा हि परमं दुःखं नैराश्यं परमं सुखम् ॥
ऋषी सौभरि कहता है: अहो मे मोहस्यातिविस्तारः !
मनोरथानां न समाप्तिरस्ति
३४७
वर्षायुतेनाप्यथवापि लक्ष्यैः ॥
३४८
९
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङगला ॥ ४३ ॥
पूर्णष पूर्णेषु पुनर्नवाना-
मुत्पत्तयः सन्ति मनोरथानाम् ॥ ११६ ।।
आमृत्युतो नैव मनोरथानां
अंतोऽस्ति विज्ञातमिदं मयाद्य ||
मनोरथासक्तिपरस्य चित्तं
न जायते वै परमार्थसंगि ।। ११९ ।।
३४९ ये स्वपत्ति सुखं रात्रौ तेषां कायाग्निरिध्यते ॥
आहारं प्रतिगृह्णाति तत पुष्टिकरं परम् ॥ ३६॥
३५० आशापाशः परीताङगा ये भवन्ति नरोदिताः ॥
ते रात्रौ शेरते नैव तदप्राप्ति विचिन्तया ॥ ३८ ॥
३५१ नैवाग्निर्दीप्यते तेषां जाठरश्च ततः परम् ॥
आहारं वांछते नैव तन्न तेजोऽभिवर्धनम् ॥ ३९ ॥
६५
भागवत, ८, १९.
Ibid, १०, १४.
Ibid, ११, ८.
विष्णु, ४, २.