स्तो त्र यो गः- -सूर्यस्तवनम्
कान्तं गृहेष कलगद्गदभाषितानां झंकारनुपुररवेण विराजितानाम् ॥
तेषां कृशानुकरमिन्दुसमानकान्तं यैरचितोऽसि भगवन्भवमोचनस्त्वम् ||
ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोऽसि रुद्रोऽन्तकोऽसि वरुणोऽस्यमराघिपोऽसि ॥
सोमोऽसि वायुरसि भूरसि चेश्वरोऽसि यज्ञोऽसि वित्तपतिरस्यपराजितोऽसि ॥
ये सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोइतरं तरीताः ॥
ब्योमैतदन्तरहितं परितो हि गत्वा गच्छन्ति न श्रमपदं हि मनागपोमे ॥६५॥
ध्यानंकयोगनिरताश्च समाधिभावाद्धयात्वा पदं तव तुरीयमनन्तमूर्ते ॥
मुक्तामयास्तनुभृतो न भियाऽभिय्क्तास्तद्ब्रह्म शाश्वतमचिन्त्यमनाद्यनन्तम् ॥
बन्माधिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम् ||
स्थूलानुभावनगणागणितं विशुद्धं वेदान्तवादिभिरलं परिपठ्यते यत् ॥६७॥
त्वामग्निपुञ्जवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्य भक्ताः ||
भानो सुरासुरसमूहशिरोनिघृष्टपादारविन्दयुगुलामलचारुमूर्ते ॥६८॥
भूतेश भूतवरदासकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीप ॥
ऋक्साममन्त्रयजुषामधिवास नामसृष्टि स्थितिप्रलयकारण लोकपाल ॥
दीनस्य देव कृपणस्य भवे भवेह मग्नस्य चारुदविचारमनोरथानि ||
शश्वद्यतीश्वर ससोकरकडकघोरोत्पातै र्जरामरणशोकरुगान्तरस्य ॥७०॥
यः प्रातः सायमिदं मध्याह्न वा पठेच्च दीप्तांशोः ॥
सालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च ॥७१॥
८२. सूर्यस्तवनम्
( मार्कण्डेय, अ. १०४ ).
[ लिख्यमाने ततो भानौ विश्वकर्मा प्रजापतिः ॥
उद्भूतपुलकः स्तोत्रमिदं चक्रे विवस्वतः ॥१॥ ]
मार्कण्डेय उवाच –
विवस्वते प्रणतहितानुकम्पिने महात्मने समजवसप्तसप्तये ॥
सुतेजसे कमलकुलावबोधिने नमस्तमः पटलपटावपाटिने ॥२॥
पावनातिशयपुण्यकर्मणं नैककामविषयप्रदायिने ||
भास्वरानलमयूखशायिने सर्वलोकहितकारिणे नमः ॥३॥
अजाय लोकत्रयकारणाय भूतात्मने गोपतये वृषाय ॥
२५९