स्तोत्र योगः – २
-
यमुनागङ्गास्तवः
२३५
मातस्तवांघ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् ॥
यो नाम ते जपति मङ्गलगौरि नित्यं सिद्धयष्टकं न परिमुञ्चति तस्य गेहम् ||
त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः ||
त्वं व्याहृतित्रय मिहाऽख़िलकर्मसिद्धयै स्वाहा स्वघासि सुमनः पितृतृप्तिहेतुः ||
गौरि त्वमेव शशिमौलिनि वेघसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः
काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मीस्त्वं मे शरण्यमिह मङगलगौरिमात: ॥
[ स्तुत्वेति तां स्मरहरार्द्धशरीरशोभां श्रीमङगलाष्टकमहास्तवनेन भानुः ॥
देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात् ॥ ]
६४. यमुनागङ्गास्तवः
( पद्म, उत्तरखण्ड, २३ )
त्वद्वार्ता प्रयतो ब्रवीमि यदहं साऽस्तु स्तुतिस्ते प्रभो
यद्भञ्जे तव संनिवेदनमथो यद्यामि सा प्रेष्यता ॥
यच्छ्रान्तः स्वपिमि त्वदंघ्रियुगुले दण्डप्रणामोऽस्तु मे
स्वामिन्यच्च करोमि तेन स भवान्विश्वेश्वर: प्रीयताम् ॥१५॥
दृष्टेन वन्दितेनापि स्पृष्टेन च घृतेन च ॥
नरा येन विमुच्यन्ते तदेतद्यामुनं जलम् ॥१६॥
तावदभ्रमन्ति भुवने मनुजा भवोत्थदारिद्रयरोगमरणव्यसनाभिभूताः ॥
यावज्जलं तव महानदि नीलनीलं पश्यन्ति नो दधा॑ति मूर्धसु सूर्यपुत्र ||
यत्संस्मृतिः सपदि कृन्तति दुष्कृतौधं
पापावलीं जयति योजनलक्षतोऽपि ॥
यन्नाम नाम जगदुच्चरितं पुनाति
दिष्ट्या हि सा पथि दृशोर्भविताऽद्य गङगा ॥१८॥
आलोकोत्कण्ठितेन प्रमुदितमनसा वर्त्म यस्याः प्रयातं
सत्यस्मिन्कृत्यमेतामय प्रथमकृती जज्ञिवान्स्वर्गसिन्धुम् ॥
स्नानं सन्च्या निवापः सुरयजनमपि श्राद्धविप्राशनाद्यं
सर्वं संपूर्णमेतद्भवति भगवतः प्रीतिदं नात्र चित्रम् ॥१९॥
देवि भूतं परं ब्रह्म परमानन्ददायिनि ||
अध्यं गृहाण मे गगे पापं हर नमोऽस्तु ते ॥२०॥