• पुराणकाव्यस्तोत्रसुधा |
ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मति चरेत् ॥
क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ॥ ८ ॥
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ||
किन्तु वै वतितापागभगिलोलं हि जीवितम् ॥ ९ ॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रभवन्ति गात्रे ॥
आयुः परित्रवति भिन्नघटादिवाम्भो
लोको न चात्महितमाचरतीह कश्चित् ॥ १० ॥
निःशकं कि मनुष्याः कुरुत परहितं युक्तमत्रे हितं य-
न्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्टया |
मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव
आयुनिःशेषमेति स्वलति जलघटीभूतमृत्युच्छलेन ॥ ११ ॥
मातृवत्परदारेषु परद्रव्येषु लोष्टवत् ॥
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १२ ॥
एतदर्थं हि, विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः ॥
यदेषां सर्वकार्येषु वंचो न प्रतिहन्यते ॥ १३ ॥
एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम् ॥
रक्षयित्वा तु चात्मानं यद्धनं तद्विजातये ॥ १४ ॥
ॐकारशब्दो विप्राणां येन राष्ट्र प्रवर्द्धते ॥
स राजा वर्द्धतें योगाद्व्याधिभिश्च न बध्यते ॥ १५ ॥
असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम् ॥
किंपुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः ॥ १६ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ॥
यस्यार्थाः स पुर्माल्लोके यस्यार्थाः स च पण्डितः ॥ १७ ॥
त्यजन्ति मित्राणि धनैविहीनं
पुत्राश्च दाराश्च सुहृज्जनाश्च ॥
ते चार्थवन्तं पुनराधयन्ति
हार्थो हि लोके पुरुषस्य बन्धुः ॥ १८ ॥
अन्धो हि राजा भवति यस्तु शास्त्रविवर्जितः ॥