९२
पुराणकाव्यस्तोत्रसुधा ।
६६१ आपत्सु च न मुह्यन्ति मराः पण्डितबुद्धयः ॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामपितं जगत् ॥ २५ ॥
६६२ चतुभिः कारणैर्दुःखं शारीरं मानसं च यत् ॥
मानसं चाप्यप्रियस्य संयोगः प्रियवर्जनम् ॥ २६ ॥
६६३ स्नेहाच्च सज्जनो नित्यं जन्तुर्बुःखमुपैति च ॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ॥ ३३ ॥
६६४ तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो घनसञ्चयात् ॥
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ ३७ ॥
६६५ ज्ञानान्वितेषु सिद्धेषु शास्त्रज्ञेषु कृतात्मसु ।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ ३८ ॥
६६६ या दुस्त्यजा दुर्मतिभिर्या न जोर्यति जीर्यतः ॥
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ४१ ॥
६६७ अनाद्यंता तु सा तृष्णा ह्यन्तर्देहगता नृणाम् ॥
विनाशयति सम्भूता लोहं लोहमलं यथा ॥ ४२ ॥
६६८ यथैवैधःसमुत्थेन वन्हिना नाशमृच्छति ॥
तथाऽकृतात्मा लोभेन स्वोत्पन्नेन विनश्यति ॥ ४३ ॥
६६९ तस्माल्लोभो न कर्तव्यः शरीरे चात्मबन्धुषु ॥
प्राप्तेषु वा न हृष्येत नाशे वापि न शोचयेत् ॥ ४४ ।।
६७० श्रेयः प्राप्तमविध्नेन प्रायः पुण्यात्मनां भुवि ॥
घटते धर्मसंयोगो मनोरथफलप्रदः ||२६||
६७१ मनसा चिन्तितान्कामांस्तांश्च प्राप्नोति पुष्कलान् ||
तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ॥ ३१ ॥
Ibid, अ. मा. (पू.), ४.
Ibid, आवन्त्यसं., च. लि. मा., ५५.
६७२ आरण्यकानां भवने नागराणां कुतः सुखम् ॥ ४७ ॥
६७३ कुलं विद्या धनं चैव बलिनां मदकारणम् ॥
Ibid.
Ibid, चै. खं., पु. मा., ८५.
भवादृशानां भव्यानां तानि प्रश्रयकारणम् ॥ १० ॥
Ibid, वं. खं., वें. मा., ३१.