८१
८२
८३
८४
८५
८६
८७
व्यवहारचातुर्ययोगः—संसारः
वेणुसंघर्षजो वन्हिर्दग्ध्वा शाम्यति तद्वनम् ॥
एवं गुणव्यत्ययजो देहः शाम्यति तत्त्रियः ॥ ७ ॥ Ibid, १३.
भ्रातरोशकृतः पाशो नृणां यः स्नेहसंज्ञितः ॥
तं दुस्त्यज महं मन्ये शूराणामपि योगिनाम् ॥ ६१ ॥
मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद ||
स्वजनानुत बन्धून्वा न पश्यति यथान्धवृक् ॥ ६४ ॥ Ibid, १०, ६४.
पुत्रमित्रकलत्रायें राज्यभोगधनाय च ॥
आगमे निगमे प्राज्ञो न विषादं समाचरेत् ॥ ४७ ॥ वामन, अ. ७७
क्वचित्संभूय गच्छंति पुनरन्यत्र वानर ||
यथा हि पान्यं गच्छन्तं पथि कश्चित्पथि स्थितः ॥ ४९ ॥
स्कांद, ब्रह्मखं. सेतुमा., अ. ४५.
अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ॥
संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥ ४ ॥
कदलीसारनिःसारे मृगतृष्णेव चंचले ||
स्थावरे जंगमे सर्वे भूतग्रामे चतुविधे ॥ ५ ॥
Ibid, आवंत्यखं.. रेवाखं., अ. १३३.
८८ तापत्रयमहाज्वालावन्हिभिः सततं नृणाम् ॥
सन्तप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥ २ ॥
पद्म, उ. खं., २२४.
४३
पुत्र:
९९ पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ||
सत्पुत्रेण महाभाग पिता माता च जन्तबः ॥ ३९ ॥
एकः पुत्रो वरो विद्वान्बहुभिनिर्गुणैस्तु किम् ॥
एकस्तारयते वंशमन्ये सन्तापकारकाः ॥ ४० ॥
पद्म, भूमिखं., अ. १२.
९१ गङगातोयेन संपूर्ण: कुम्भ एव प्रदृश्यते ॥
सुराया बिन्दुना लिप्तो मद्यकुम्भः प्रजायते ॥ ९ ॥