स्तो त्र यो गः– शिवस्तोत्रम्
क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमण्डितानि ॥
सब्रह्मकानि व्यसृजत्सुकृताहितानि त शंकरं शरणदं शरणं व्रजामि ||१६९॥
यस्याखिलं जगदिदं वशवति नित्यं योऽष्टाभिरेव तनुभिर्भुवनानि भुङ्क्ते ||
यः कारणं सुमहतामपि कारणानां तं शंकरं शरणदं शरणं व्रजामि ॥१७०॥
शखेन्दुकुन्दघवलं वृषभप्रवीरमारुह्य यः क्षितिधरेन्द्रसुतानुयातः ॥
यात्यम्बरे हिमविभूतिविभूषिताङ्गस्तं शंकरं शरणदं शरणं व्रजामि ॥१७१॥
शान्तं मुनि यमनियोगपरायणं तंर्भीमर्यमस्य पुरुषैः प्रतिनीयमानम् ॥
भक्त्या न तं स्तुतिपरं प्रसभं ररक्ष तं शंकरं शरणदं शरणं व्रजामि ॥१७२॥
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पञ्चमं प्रसभमेव पुरः सुराणाम् ||
ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त तं शंकरं शरणदं शरणं व्रजामि ॥१७३॥
यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतन्त्रिताभिः ॥
दोप्तस्तमांसि नुदते स्वकर विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि ॥ १७४॥
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जायन्ति नास्य जंगतः सचराचरस्य ||
ऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनां त्वनुभवन्त्यविशुद्धचित्ताः ॥१७५॥
३५. शिवस्तोत्रम्
( पद्म, सृष्टिखण्ड, ४३ )
अन्धक उवाच
नमोऽस्तु शंभो भवनाश हेतो नमोऽस्तु ते देववर प्रसीद ||
त्वं भूजलाग्नोरनभोऽकंसोमयज्वाष्टमूर्तिर्भवभावनोऽलम् ॥८९।।
त्वां वै बाणो बाहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे त्वत्सुरक्ष्यम् ॥
रक्षोऽधीशो बाहुभिस्तोल्य शैलं युष्मत्क्रान्त क्लिष्टरूपो ह्यनौषोत् ॥१०॥
प्राप्तोऽप्यंश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोजितं शऋबन्वम् ॥ ९१ ॥
भवभयहर हर परम उदार मम सुखकरण निखिलसुरसार ||
जितमरुदभिमतवितरणपार तव पदकमलमिहारणमार ॥ ९२ ॥
तवेश पादपङकजं करोति यो नरो हृदि
स देश तस्य बाञ्छितं ददासि भक्तिभावितः ॥