८२
पुराणकाव्यस्तोत्रसुधा ।
५४१ न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ||
भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ॥ ८६ ॥
५४२ अन्यथाऽऽलिङ्यते कान्ता भावेन दुहिताऽन्यथा ॥
मनसा भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ॥ ८७ ॥
५४३ अन्यथैव सती पुत्रं चिन्तयेदन्यथा पतिम् ॥
यथा यथा स्वभावस्य महाभाग उदाहृतम् ॥ ८८ ॥
५४४ परिष्वक्तोऽपि यद्भार्या भावहीनां न कारयेत् ॥
नाद्या द्विविधमन्नाद्यं रस्यानि सुरभीणि च ॥ ८९ ॥
५४५ अभावेन नरस्तस्माद्भावः सर्वत्र कारणम् ॥
चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनंः ॥ ९० ॥
५४६ भावतः शुचिशुद्धात्मा स्वर्ग मोक्षं च विन्दति ॥
ज्ञानामलाम्भसा पुंसः स वैराग्यमृदा पुनः ॥ ९१ ॥
आत्मगुण ( ५ ) सत्यपालनम्
५४७ सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गोयते ||
वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मनः ॥ ३९ ॥
पद्म, भूमिखं., ६६.
५४८ तद्यथा वृक्ष उन्मूलः शुष्यत्युद्वर्ततेऽचिरात् ||
एवं नष्टानृतः सद्य आत्मा शुष्पेन संशयः ॥ ४० ॥ भागवत, ८, १९.
५४९ त्यज चिन्तां महाराज स्वसत्यमनुपालय |
श्मशानवद्वर्जनीयो नरः सत्यबहिष्कृतः ॥ १७ ॥
५५० नातः परतरं धर्मं वदन्ति पुरुषस्य तु ||
यावृशं पुरुषव्याघ्र स्वसत्यपरिपालनात् ॥ १८ ॥
५५१ अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ॥
भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम् ॥ १९ ॥
५५२ सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् ॥
तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥ २० ॥
५५३ सप्ताश्वमेघानाहृत्य राजसूयं च पार्थिवः ॥
कृतिर्नाम च्युतः स्वर्गादसत्यवचनात्सकृत् ॥ २१ ॥
मार्कण्डेय, ८