पुराणकाव्यस्तोत्रसुधा |
निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि ॥
तृष्णा कान्तिश्छविस्तुष्टिस्सर्वानन्दकरी सदा ||३२||
त्वं लक्ष्मी: पुण्यकर्तॄणां त्वं ज्येष्ठा पापितां सदा ॥
त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ॥३३॥
त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् ॥
त्वं हि नीतिभृतां नोतिर्व्यवसायस्वरूपिणी ॥ ३४॥
गोतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ॥
ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ॥ ३५॥
समस्तगीर्वाणगणस्य शक्तिस्तमोमयी धातृगुणैकदृष्या ॥
रजः प्रपंचात्तु भवैकरूपा या न श्रुता भव्यकरी स्तुतेह ॥३६॥
संसारसागरकरालभवाङ्गदुःखनिस्तारकारितरणिश्च निवीतहोनाः ॥
अष्टागयोगपरिपालनकेलिदक्षां विन्ध्यागवासनिरतां प्रणमाम तां वै ॥
नासाक्षिवक्त्रभुजवक्षसि मानसे च घृत्या सुखानि वितनोषि सदैव जंतोः ॥
निद्रेति यातिसुभगा जगतो भवानां सा नः प्रसोदतु भवस्थितिपालनाय ॥३८॥
२२०
५१. कात्यायनीस्तोत्रम् (सर्वसङ्कटकाले )
( मार्कण्डेय, अ. ८८ )
[ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ॥
स्मेरमुखीं वरदाङकुशपाशाभीतिकरां प्रभुजे भुवनेशीम् ॥ ]
ऋषिरुवाच -
ॐ देव्या हते तत्र महासुरेन्द्र सेन्द्राः सुरा वह्निपुरोगमास्ताम् ॥
कात्यायनों तुष्टुवुरिष्टलाभाद्विका शिवक्त्राब्जविकाशिताशाः ॥१॥
देवा ऊचुः -
देवि प्रपन्नातिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य ||
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ||२||
आधारभूता जगतस्त्वमेका महोस्वरूपेण यतः स्थितासि ॥
अपां स्वरूपस्थितया त्वयंतदाप्याय्यते कृत्स्नमलंघ्यवीर्ये ॥३॥
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया ॥
संमोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥४॥