५८
२६१
२६२
पुराणकाव्यस्तोत्रसुधा |
सद्भिः पुरस्तादभिपूजितः स्या-
त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ॥
सदा सतामतिवादांस्तितिक्षेत्
सतां वृत्तं पालयन्साघुवृत्तः ॥ १० ॥
वाक्सायका वदनानिष्पतन्ति
यैराहतः शोचति वा व्यहानि ||
परस्य नो ममंसु ते पतन्ति
तान्पंडितो नावसृजेत्परेषु ॥ ११ ॥
२६३ नास्तोदृशं संवननं त्रिषु लोकेषु किञ्चन ॥
यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ॥ १२ ॥
२६४ तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ॥
पूज्यान्सम्पूजयेद्दद्यान्नाभिशापं कदाचन ॥ १३ ॥
२६५ अकार्य क्रियते मूढैः प्रायः क्रोधसमीरितैः ॥ ३ ॥
२६६ क्रोधेन नश्यते कोतिः क्रोधो हन्ति स्थिरां श्रियम् ॥
अपरिच्छन्नतत्त्वार्था पुत्रं शापितवत्यहम् ॥
विपरीतार्थबुद्धीनां सुलभो विपदोदयः ॥ ४ ॥
२६७ नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः ॥
नास्त्यरोगसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ २३ ॥
२६८ मूढानामेव भवति क्रोधो ज्ञानवतां कुतः ||
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥ १७ ॥
Ibid, ३६.
मत्स्य,
शिव, उमासं., ११.
आत्मदोष (४)
चिन्ता
२६९ एकंव सार्थका चिन्ता धर्मस्यायें विचिन्त्यते ॥
द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनी ॥ २९ ॥
२७० अन्या निर्थिका चिन्ता बलतेजःप्रणाशिनी ॥
नाशयेत्सर्वसौख्यं तु रूपहानि निदर्शयेत् ॥ ३१ ॥
१५८.
स्कांद, काशीखं., ४६.