पुराणकाव्यस्तोत्रसुधा ।
ज्ञानज्ञेयमनादिमन्तरहितं सर्वामराणां हितं
स प्राप्नोति न संशयोऽस्त्वकलं यद्वाजिमेधे फलम् ॥५४॥
यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च सः
ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः ॥
तत्सर्वं पुरुषं पवित्रममलं शृण्वन्पठन्वाचयन्
प्राप्तोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ ५५॥
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने ||
विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः ॥
मुक्ति चेतसि यः स्थितोऽमलघियां पुंसां ददात्यव्ययः
कि चित्रं यदधं प्रयाति विलयं तत्राच्युते कीर्तिते ॥५६॥
यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो
यं वं ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः ॥
यं सञ्चिन्त्य न जायते न म्रियते नो वर्द्धते हीयते
नैवासन्न च सद्भवत्यति ततः किं वा हरेः श्रूयताम् ॥ ५७॥
कव्यं यः पितृरूपघृग्विधिहुतं हव्यं च भुङ्क्ते विभु-
देवत्वे भगवाननादिनिधनः स्वाहास्वघासंज्ञिते ॥
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां
निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥५८॥
नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य
नापक्षयं च समुपैयविकारि वस्तु यस्तं नतोऽस्मि पुरुषोत्तम मोशमोड्यम् ||
तस्यैव योऽनु गुणभुम्बहुधैक एवं शुद्धोऽप्यशुद्ध इव भाति हि मूर्तिभेदः ॥
ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता तस्मै नमोऽस्तु पुरुषाय सदाव्ययाय ॥६०॥
ज्ञान प्रवृत्तिनियमक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय ||
अव्याकृताय भवभावनकारणाय वन्दे स्वरूपभवनाय सदाजराय ॥६१॥
ब्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय ||
पुंसः समस्तकरणंरुपकारकाय व्यक्ताय सूक्ष्म बृहदात्मवते नतोऽस्मि ||६२||
इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानशेषपुंसां रिरपजन्मजरादिकां स सिद्धिम् ||६३||
२८०
3