पुराणकाव्यस्तोत्रसुधा ।
न मातृमूर्ध्नि प्रधृतस्तथा के
त्यवतुं क्षमः कर्म कृतं नरो हि ॥ २० ॥
दुर्गस्त्रिकूट: परिखा समुद्रो
रक्षांसि योधाः परमा च वृत्तिः ॥
शास्त्रं च वै तूशनसा प्रदिष्ट
स रावणः कालवशाद्विनष्टः ॥ २१ ॥
यस्मिन्वयसि यत्काले यद्दिवा यच्च वा निशि ॥
यन्मुहूर्त्ते क्षणे वापि तत्तथा न तदन्यथा ॥ २२ ॥
गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महोतले ॥
धारयन्ति दिशः सर्वा नादत्तमुपलभ्यते ॥ २३ ॥
पुराधीता च या विद्या पुरा दत्तं च यद्धनम् ॥
पुरा कृतानि कर्माणि ह्यग्रे धावन्ति धावतः ॥ २४ ॥
कर्माण्यत्र प्रधानानि सम्यगृक्षे शुभग्रहे ||
वसिष्ठकृतलग्नापि जानकी दुःखभाजनम् ॥ २५ ॥
स्थूलजङ्घो यदा रामः शब्दगामी च लक्ष्मणः ॥
घनकेशी यदा सीता त्रयस्ते दुःखभाजनम् ॥ २६ ॥
न पितुः कर्मणा पुत्रः पिता वा पुत्रकर्मणा ॥
स्वयं कृतेन गच्छन्ति स्वयं बद्धाः स्वकर्मणा ॥ २७ ॥
कर्मजन्यशरीरेषु रोगाः शारीरमानसाः ||
शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ २८ ॥
अन्यथा शास्त्रगभिण्या घिया धोरोऽर्थमीहते ॥
स्वामिवत्प्राकृतं कर्म विदधाति तदन्यथा ॥ २९ ॥
बालो युवा च वृद्धश्च यः करोति शुभाशुभम् ॥
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ ३० ॥
अनीक्षमाणोऽपि नरो विदेशस्थोऽपि मानवः ॥
स्वकर्मपोतवातेन नीयते यत्र तत्फलम् ॥ ३१ ॥
प्राप्तव्यमर्थं लभते मनुष्यो
देवोऽपि तं वारयितुं न शक्तः ॥