स्तोत्र यो गः
-
- व्यासस्तोत्रम्
महदहंयुतं पञ्चमात्रया प्रकृतिजायया निर्मितं वपुः ॥
तव निरीक्षणाल्लीलया जगत्स्थितिलयोदयं ब्रह्मकल्पितम् ॥५॥
भूवियन्म रुद्वारितेजसां राशिभिः शरीरेन्द्रियाश्रितैः ॥
त्रिगुणया स्वया मायया विभो कुरु कृपां भवत्सेवनायिनाम् ॥ ६॥
तव गुणालयं नाम पावनं कलिमलापहं कोर्तयन्ति ये ॥
भवभयक्षयं तापतापिता मुहुरहो जनाः संसरन्ति ते ॥७॥
तव जनुः सतां मानवर्धनं जिनकुलक्षयं देवपालकम् ॥
कृतयुगापकं धर्मपूरकं कलिकुलान्तकं शं तनोतु मे ॥८॥
मम गृहं पतिपुत्रनप्तकं गजरथैर्ध्वजेश्चामरर्धनः ॥
मणिवरासनं सत्कृति विना तव पदाब्जयोः शोभयन्ति किम् ॥ ९॥
तव जगद्वपुः सुन्दर स्मितं मुखमनिन्दितं सुन्दरारवम् ॥
यदि न मे प्रियं वल्गुचेष्टितं परिकरोत्यहो मृत्युरस्त्विह ॥१०॥
हयचर भयहरकरहरशरणखरतरवरशर दशबलदमन ||
जय हतपरभर भववरनाशन शशधरशत समरसभर मदन ॥११॥
व्यासस्तोत्रम्
( ब्रह्म, १३८ )
मुनय ऊचु:-
प्रोक्तं त्वया मुनिश्रेष्ठ पुराणं श्रुतिसंमितम् ||
सर्वाभिप्रेतफलदं सर्वपापहरं परम् ||६||
सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः ॥
नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥ ८॥
येन त्वया तु वेदार्या भारते प्रकटीकृताः ॥
कः शक्नोति गुणान्वक्तुं तव सर्वान्महामुने ॥९॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ||
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥११॥
अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः ॥
ज्ञानाञ्जनशलाकेन त्वया चोन्मोलिता वृशः ||१२||
२६७