१९४
पुराणकाव्यस्तोत्रसुधा ।
त्वयैवेदं भ्राभ्यते ब्रह्मचक्रं मायावी त्वं जगतामेकनाथः ॥
नमामस्त्वां शरणं संप्रपन्ना योगात्मानं रुद्रमनन्तशक्तिम् ॥ २६ ॥
पश्यामस्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः ॥
सर्वात्मानं बहुधा सन्निविष्टं ब्रह्मानन्दं चानुभूयानुभूय ॥ २७ ॥
ओडकारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गूढरूपम् ॥
तत्त्वां सत्यं प्रवदन्तीह सन्तः स्वयं प्रभं भवतो यत्प्रभावम् ॥ २८ ॥
स्तुवन्ति त्वां सततं सर्ववेदा नमन्ति त्वामृषयः क्षीणदोषाः ॥
शान्तात्मानः सत्यसन्धं वरिष्ठं विशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥२९॥
भुवो नाशो नादिमान्विश्वरूपो ब्रह्मा विष्णुः परमेष्ठी वरिष्ठः ॥
स्वात्मानन्दमनुभूयाविशन्ते स्वयं ज्योतिरचला नित्यमुक्ताः ॥३०॥
एको रुद्रस्त्वं करोषीह विश्वं त्वं पालयस्यखिलं विश्वरूपम् ||
त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं संप्रपन्नाः ॥ ३१ ॥
एको वेदो बहुशाखो ह्यनन्तस्त्वामेवं कं बोधयत्येकरूपम् ॥
वन्द्यं त्वां ये शरणं संप्रपन्ना मायामेतां ते तरन्तीह विप्राः ॥ ३२ ॥
त्यामेकमाहुः कविमेकरुद्रं ब्रह्मं गृणन्तं हरिमग्निमीशम् ॥
रुद्रं नित्यमनिलं चेकितानं धातारमादित्य मनेकरूपम् ॥ ३३ ॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ||
त्वमव्ययः शाश्वत धर्मगोप्ता सनातनस्त्वं पुरुषोत्तमोऽसि ॥ ३४ ॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपोशः ॥
त्वं विश्वनाथः प्रकृतिः प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ ३५ ॥
त्वामेकमाहुः पुरुषं पुराणमादित्यवर्णं तमसः परस्तात् ॥
चिन्मात्रमव्यक्त मनन्तरूपं खं ब्रह्म शून्यं प्रकृतिर्गुणाश्च ॥ ३६ ॥
यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ||
किमप्यचिन्त्यं तव रूपमेतत्तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ३७॥
योगेश्वरं भद्रमनन्तशक्ति परायणं ब्रह्मतनुं पुराणम् ॥
नमाम सर्वे शरणायिन स्त्वां प्रसीद भूताधिपते महेश ॥ ३८ ॥