व्यवहारचातुर्ययोगः– साधुवृत्तिः
६४९ उत्तमानां स्वभावोऽयं परदुःखसहिष्णुता ||
स्वयं दुःखं च संप्राप्तं मन्यतेऽन्यस्य वार्यते ॥ २४ ॥
६५० वृक्षाश्च हाटकं चैव चन्दनं चंक्षुकस्तथा ॥
एते भुवि परार्थे च दक्षा एवं न केचन ।। २५ ।।
६५१ दयालुरमदस्पर्शः उपकारी जितेन्द्रियः ||
एतंञ्च पुण्यस्तम्भैश्च चतुभिर्घायते मही ॥ २६ ॥
स्कान्द, माहेश्वरखं., के.खं., ९.
६५२ स सुखी परमार्थज्ञः स विद्वान्स च पण्डितः ॥
येन मुक्तौ कामरागौ स मुक्तः स सुखी भवेत् ॥ १४० ॥
६५३ [ आपो वस्त्रं तिलास्तैलं गन्धो वा सयवा तथा ॥
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ १२५ ॥ |
६५४ मोहजालस्य यो योनिर्मूढैरिह समागमः ॥
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ १२६ ॥
६५५ तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः ॥
सद्भिश्च सह संसर्ग: कार्यः शमपरायणः ॥ १२७ ॥
६५६ न नीचैर्नाप्पविद्वद्भिर्नानात्मज्ञविशेषतः ||
येषां त्रीण्यवदातानि योनिविद्या च कर्म च ।। १२८ ।।
६५७ तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते ॥
असतां दर्शनस्पर्शसञ्जल्पासनभोजनंः ॥ १२९ ।।
Ibid, ३४.
६५८ धर्माचारात्प्रहीयन्ते न च सिद्धयन्ति मानवाः ॥
बुद्धिश्च होयते पुंसां नीचैः सह समागमात् ||
मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥ १३१ ॥
Ibid, मा.खं., कौ.खं., ४५.
६५९ दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
न हि ज्ञानविरुद्वेषु बह्नपायेषु कर्मसु ॥ २२ ॥
६६० मूलघातिषु सज्जन्ते बुद्धिमंतो भवद्विधाः ॥
अष्टाङ्गां बुद्धिमाहूर्या सर्वश्रेयोविघातिनीम् ॥ २३ ॥