राजोवाच -
२
- महारासवर्णनम्
सिषेव आत्मन्यवरुद्धसौरतः
सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥
का व्य यो गः-
श्रीशुकं उवाच -
संस्थापनाय धर्मस्य प्रशमायतरस्य च ॥
अवतीर्णो हि भगवानंशेन जगदीश्वरः ॥ २७ ॥
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ||
प्रतोपमात्चरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥
आप्तकामो यदुपतिः कृतवान्वं जुगुप्सितम् ||
किमभिप्राय एतं नः संशयं छिन्धि सुव्रत ॥ २९ ॥
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ||
तेजीयसां न दोषाय वन्हेः सर्वभुजो यथा ॥ ३० ॥
नैतत्समाचरेज्जातु मनसापि हयनीश्वरः ॥
विनशत्याचरन्मौढ्याद् यथा रुद्रोऽब्धिजं विषम् ॥ ३१ ॥
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ॥
तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥ ३२ ॥
कुशलाचरिते नैषामिह स्वार्थो न विद्यते ॥
विपर्ययेण वानर्थो निरहंकारिणां प्रभो ॥ ३३ ॥
किमुताखिलसत्त्वानां तिर्यङमर्त्यदिवौकसाम् ||
इंशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥
यत्पादपकजपरागनिषेवतृप्ता
योगप्रभाव विधुताखिलकर्मबन्धाः ||
स्वैरं चरन्ति मुनयोऽपि न नामाना--
स्तस्थेच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५ ॥
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ||
योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६॥
१११