२५८
पुराणकाव्यस्तोत्रसुधा |
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ||
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥१६०॥
पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ||
सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥१६१॥
नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् ||
एकादशं त्रयोमूर्तिर्द्वादशं सूर्य एव च ॥ १६२||
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ॥
दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति || १६३॥
८१. रविस्तवः
( पद्म, सृष्टिखण्ड, ४३ )
यस्तूवयाद्रिशिखरे मुकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशः ॥
व्याप्य स्वदीधितिगणं: प्रदिशो दिशश्च दैदीप्यते स सविता विभवाय लोके ॥
ब्रह्मेन्द्ररुद्रमरुवच्युतवह्नपायोनाथ प्रयोग निपुर्णश्च ऋषीन्द्रसघैः
श्रेयोथिभिः प्रतिदिनं दिवसाङ्गरागदिव्याङ्गरागपरिलिप्त समस्तदेहैः ॥ ॥
पूज्यं वपुस्तव सदा प्रलये हि वेदंर्गीभिविचित्रपद मण्डलमण्डिताभिः ।।
ये त्वां (न) स्तुवन्ति परसद्मनि सद्महोना नित्यं प्रसारितकरा भुवि ते भवन्ति
ये दुष्टकुष्ठपिटिकादिभिरदिताङगाः शोर्णत्वचः कुनविनश्च्युतकेशनासाः ॥
बेवेश तेऽपि तव पावनता भवन्ति सद्यो द्विरष्टशरदाकृतयो मनुष्याः ॥ ५७॥
सामेति साममयणा हि मखार्थकं त्वामध्वर्यवः ऋगिति बह वृचमुख्यपूगा: ॥
त्वामेवमार्यमति कार्य विदोऽधिगन्तुं नागाश्च वेत्ति पितरोऽप्यय सर्वगन्धम् ||
मायेति चोपनिषदर्क षडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमो ||
गन्धर्वकिन्नरगणाः सहचारणस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम् ॥ ५९॥
ये नाचंयन्ति सततं भवतोऽयं मचिस्तेऽचिष्प्रतापित दिगम्बर वित्तहोताः ॥
सुत्क्षामकण्ठजठरा घटखर्परेण भिक्षामन्ति परवेश्मसु तेऽर्थहीनाः ||६०॥
उत्फुल्लकोकनदकोषविशालनेत्रमोषद्विलासललितालकपोलतारम् ॥
कामं प्रशस्ततरसुन्दरहाररम्यमुत्तुङ्गपोव रपयोघरभारखिन्नम् ॥ ६१॥
रम्भोपमो रुपृथुपोननितम्बबिम्बानद्धक्वणन्मणिरणद्रसनाकलापम् ||
वृन्वं ललाटतटकोटिपटान्तलम्बिहे माञ्चलाञ्चितमुखं कुलपालिकानाम् ||