११०
पुराणकाव्यस्तोत्रसुधा ।
तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः
केशान्दुकूलं कुचपट्टिकां वा ॥
नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो
वित्रस्तमालाभरणाः कुरूद्वह ॥ १८ ॥
कृष्ण विक्रीडितं वोक्ष्य मुमुहुः खेचरस्त्रियः ||
कामादिताः शशाङकश्च सगणो विस्मितोऽभवत् ।। १९ ।।
कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ॥
रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ २० ॥
तासामतिविहारेण श्रान्तानां वदनानि सः ॥
प्रामृजत्करुण: प्रेम्णा शन्तमेनाङग पाणिना ॥ २१ ॥
गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विङ्-
गण्डश्रिया सुधितहासनिरीक्षणेन ॥
मानं दधत्य ऋषभस्य जगुः कृतानि
पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥
ताभिर्युतः श्रममपोहितुमङ्गसङ्ग-
घृष्टस्रजः स कुचकुडकुमरञ्जितायाः ॥
गन्धर्वपालिभिरनुद्रुत आविशद् वाः
श्रान्तो गजोभिरिभराडिव भिन्नसेतुः ॥ २३ ॥
सोऽम्भस्यलं युवतिभिः परिषिच्यमानः
प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽग ॥
वैमानिकैः कुसुमवर्षभिरीड्यमानो
रेमे स्वयं स्वरतिरत्र गजेन्द्रलोलः ॥ २४ ॥
ततश्च कृष्णोपवने जलस्थल -
प्रसूनगन्धानिलजुष्टदिक्तटे ||
चचार भृङ्गप्रमदागणावृतो
यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥
एवं शशाङकांशुविराजिता निशाः
स सत्यकामोऽनुरताबलागणाः ॥