पुराणकाव्यस्तोत्रसुधा ।
नमोऽस्तु पद्मनाभाय सांख्ययोगोद्भवाय च ||
विश्वेश्वराय देवाय शिवाय हरये नमः ॥ ३७ ॥
नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ||
नारायणाय विश्वाय देवाय परमात्मने ॥ ३८ ॥
नमोनमः कारणवामनाय नारायणायामितविक्रमाय ||
श्रीशार्गचक्रासिगदाघराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ३९ ॥
गुह्याय वेदनिलयाय महोरगाय सिंहाय दैत्यनिधनाय चतुर्भुजाय ||
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय सकलाय नमोऽच्युताय ॥ ४० ॥
नागेन्द्रभोगशयनाय च सुप्रियाय गोक्षीरहेमशकनीलघनोपमाय ||
पीताम्बराय मधुकैटभनाशनाय विश्वाद्यचारुमुकुटाय नमोऽक्षराय ॥ ४१ ॥
नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतयशोधराय ॥
नानाविचित्रकनकागदभूषणाय सर्वेश्वराय वरदाय नमो वराय |॥ ४२ ॥
भक्तिप्रियाय वरदीप्तसुदर्शनाय देवेन्द्रविघ्नशमनोद्यतपौरुषाय ||
फुल्लारविन्दविमलायतलोचनाय योगेश्वराय वरदाय नमो वराय ॥ ४३ ॥
ब्रह्मायनाय त्रिदशायनाय लोकायनायात्महितायनाय ॥
नारायणायात्मविकाशनाय महावराहाय नमः सुरोऽसि ॥ ४४ ॥
१८२
कूटस्थमव्यक्तमचिन्त्यरूपं नारायणं कारणमादिदेवम् ॥
युगान्तशेषं पुरुषं पुरातनं तं देवदेवं शरणं प्रपद्ये ॥ ४५ ॥
योगेश्वरं चारुविचित्रमौलिमज्ञेयमग्न्यं प्रकृतेः परस्थम् ॥
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ॥ ४६ ॥
अदृश्यमव्यक्त मचिन्त्यमव्ययं बह्मर्षयो ब्रह्ममयं सनातनम् ॥
वदन्ति यं वे पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥ ४७ ॥
यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते ॥
तमीश्वरं तृप्तमनुत्तम॑र्गुणैः परायणं विष्णुमुपैमि शाश्वतम् ॥ ४८ ॥
कार्य क्रियाकारणमप्रमेयं हिरण्यनाभं वरपद्मनाभम् ॥
महाबलं देवनिधि सुरेशं व्रजामि विष्णुं शरणं जनार्दनम् ॥ ४९ ॥
किरीट केयूरमहार्ह निष्कर्मण्युत्तमालङ्कृतसर्वगात्रम् ॥
पीताम्बरं काञ्चनभक्तिचित्रं मालाघरं केशवमभ्युपैमि ॥ ५० ॥