२६०
पुराणकाव्यस्तोत्रसुधा ।
नमो महाकारुणिकोत्तमाय सूर्याय चक्षुष्प्रभवालयाय ॥४॥
विवस्वते ज्ञानभृतेऽन्तरात्मने जगत्प्रतिष्ठाय जगद्वितैषिणे ॥
स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः ॥५॥
क्षणमुदयाचलमौलिमणिः सुरगणमहितहितो जगतः ॥
त्वमु मयूख सहस्त्रवपुर्जगति विभासि तमांसि नुदन् ॥६॥
भवतिमिरासवपानमदाद्भवति विलोहितविग्रहता ॥
मिहिर विभासि यतः सुतरां त्रिभुवनभावन भानिकरैः ॥७॥
रथमधिरुह्य समावयवं चारुविकम्पितमुरुरुचिरम् ॥
सततमखिनहृदयभंगवंश्चरसि जगद्विताय विततम् ॥८॥
अमृतमयेन रसेन समं विबुधपितॄनपि तर्पयसे ||
अरिगणसूदन तेन तव प्रणतिमुपेत्य लिखामि वपुः ॥९॥
शुकसमवर्णयप्रथितं तव पादपांसुपवित्रतमम् ॥
नतजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रखे ॥१०॥
इति सकलजगत्प्रदीपभूतं त्रिभुवनभावनधामहेतुमेकम् ॥
रविमखिलजगत्प्रदीपभूतं त्रिदशवर प्रणतोऽस्ति सर्वदा त्वाम् ॥११॥
८३. श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्
( स्कान्द, प्र.क्षे.मा., २७९ )
धौम्येन तु यथा पूर्व पार्याय सुमहात्मने ॥४॥
मामाष्टशतमाख्यातं तच्छृणुष्व महामते ||
सूर्योर्यऽमा भगस्त्वष्टा पूषाऽर्क: सविता रविः ॥ ५॥
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणः ॥६॥
सोमो बृहस्पतिः शुक्रो बुधोंडगारक एव च ॥
इन्द्रो विवस्वानदीप्तांशुः शुचिः शौरिः शनैश्चरः ॥ ७॥
ब्रह्मा रुद्रश्च विष्णुश्च स्कन्दो वैश्रवणो यमः ॥
वैद्युतो जाठरश्चाग्निरिन्धनस्तेजसां पतिः ॥८॥
धर्मध्वजो वेदकर्त्ता वेदाङगो वेदवाहनः ||