१८०
पुराणकाव्यस्तोत्रसुधा ।
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् ॥
कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥ ४३ ॥
अत्युपद्रवदुःखघ्नं परमायुष्यवर्द्धनम् ॥
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनी ॥ ४४ ॥
पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ||
पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ ४५ ॥
धनवाहं दरिद्राणां जयेच्छूनां जयावहम् ||
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥ ४६ ॥
बालरोगग्रहादीनां शमनं शान्तिकारकम् ||
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ ४७ ॥
असिद्धसाधकं भद्रे जपादिकरमात्मनाम् ॥
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥ ४८ ॥
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ||
इमं मन्त्रं महादेवि जपनेव दिवानिशम् ॥ ४९ ।।
सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् ॥
पुत्रपौत्रः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥
निषेष्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात् ॥ ५० ॥
२८. दशावतारस्तोत्रम्
( वराह, १५ )
गौरमुख उवाच
स्तोष्ये महेन्द्रं रिपुदर्पहं शिवं नारायणं ब्रह्मविदां वरिष्ठम् ॥
आदित्यचन्द्राश्वियुगस्थमाद्यं पुरातनं दैत्यहरं सदा हरिम् ॥ ९ ॥
चकार मात्स्यं वपुरात्मनो यः पुरातनं वेदविनाशकाले ॥
महामहीभृढपुरग्रपृच्छच्छटाहवाचिः सुरशत्रुहाद्यः ॥ १० ॥
तथा ब्धिमन्यानकृते गिरोन्द्रं दधार यः कौम्भ॑वपुः पुराणम् ॥
हितेच्छयाप्तः पुरुषः पुराणः प्रपातु मां दैत्यहरः सुरेशः ॥ ११ ॥
महावराहः सततं पृथिव्यास्तलातलं प्राविशद्यो महात्मा ॥
यज्ञाऊगसंज्ञः सुरसिद्धसंघः प्रपातु मां दैत्यहरः पुराणः ॥ १२ ॥