-श्रीपतिस्तवनम्
१६. पुरुषोत्तमस्तोत्रम्
( पद्म, पातालखण्ड, २१ )
मुनिरुवाच -
स्तो त्र यो गः-
राजोवाच-
जद दीन दयाकर प्रभो जय दुःखापह मडगलाह्वय |
जय भक्तजनातिनाशककृतवर्मञ्जय दुष्टघातक ॥ २० ॥
अम्बरोषमय वोक्ष्य दुःखितं विप्रशापहत सर्वमङ्गलम् ॥
धारयन्निजकरे सुदर्शनं स्वं ररक्ष जठराधिवासतः ॥ २१ ॥
दैत्यराज पितृकारितव्यथः शूलपाशजलवह्निपातनः ॥
श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः ॥ २२ ॥
ग्राहवक्त्रपतितांघ्रिमृद्भटं वारणेन्द्रमतिदुःखपीडितम् ॥
वीक्ष्य साधु करुणार्द्रमानसस्त्वं गरुत्मति कृतारह क्रियः ॥ २३ ॥
त्यक्तपक्षिपतिरात्तचक्रको वेगकम्पयुतमालिकाम्बरः ॥
गोयसे सुभिरमुष्य नतो मोचकः सपदि तद्विनाशकः ॥ २४ ॥
यत्र यत्र तव सेवकार्दनं तत्र तत्र बत देहधारिणा ॥
पाल्यतेऽत्र भवता त्वया निजः पापहारिचरितैर्मनोहरैः ॥ २५ ॥
दोननाय पुरमौलिहीरकोद्धृष्टपादतल भक्तवल्लभ ॥
पापकोटिपरदाहक प्रभो दर्शयस्व मम पादपकजम् ॥ २६ ॥
पापकृद्यदि जनोऽहमागतो मानसे तव तथा हि दर्शय ||
तावका वयमघौघनाशन विस्मृतं न हि सुरासुराचित ॥ २७ ॥
ये वदन्ति तव नाम निर्मल ते तरन्ति सकलाघसागरम् ||
सच्छू तिर्यदि कृता तदा मया प्राप्यतां सकलदुःखहारक ॥ २८ ॥
10
१७. श्रीपतिस्तवनम्
( पद्म, उत्तरखण्ड, २११ )
श्रीपते श्रीकराम्भोजसंमदतपदाम्बुजम् ॥
भवतो भवतापघ्नं वन्दे त्रिदशवन्दितम् ।। ९९ ।।
त्वदोयमायया नाथ मोहिता येऽत्र जन्तवः ॥
तेषां कदाचित्रिस्तारो न कृपामन्तरेण ते ।। १०० ।।
१६७