७६ ·
पुराणकाव्यस्तोत्रसुधा ।
४७० नाघनस्यास्त्ययं लोको न परश्च कथंचन ||
अभिशस्तं प्रपश्यन्ति दरिद्रं पार्वतः स्थितम् ॥ ७ ॥
४७१ दारिद्रयं पातकं लोके कस्तच्छंसितुमर्हति ॥
पतितः शोच्यते सर्वे निर्धनश्चापि शोच्यते ॥ ८ ॥
४७२ यः कृशाश्वः कृशधनः कृशभृत्यः कृशातिथिः ||
स वै प्रोक्तः कृशो नाम न शरीरकृशः कृशः ॥ ९ ॥
४७३ अर्थवान्दुष्कुलोनोऽपि लोके पूज्यतमो नरः ॥
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ १० ॥
४७४ ज्ञानवृद्धा वयोवृद्धा ये च वृद्धा बहुश्रुताः ॥
ते सर्वे धनवृद्धस्य द्वारि तिष्ठन्ति किङ्कराः ॥ ११ ॥
४७५ यद्यप्ययं त्रिभुवने अर्थोऽस्माकं पराप्न हि ॥
तथाप्यन्यप्रार्थितो हि तस्यैव फलदो भवेत् ॥ १२ ॥
स्कान्द, माहेश्वरखं, कौ. खं., २.
४७६ अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ॥
दारिद्रयाम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥ ११ ॥
४७७ विप्राः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा ॥
शिष्याश्च सर्वे मनुजास्त्यजन्त्यैश्वर्यर्वाजतम् ॥ १२ ॥
Ibud, वं. खं. वें.मा., २०.
४७८ अर्थश्चेत्सर्वथा रक्ष्य इति केश्चिदुदाहृतम् ॥
तत्कथं न हरिश्चन्द्रोऽरक्षत्कुशिकनन्दने ॥ ३५ ॥
४७९ धर्मस्तु रक्षितः सर्वैरपि देहव्ययेन च ॥
शिबिप्रभृतिभूपालैर्दधीचिप्रमुर्खद्विजैः ।। ३६ ।।
४८० अर्थसंपद्विमोहाय विमोहो नरकाय च ||
Ibid, काशीखं., ४६.
तस्मादर्थं प्रयत्नेन श्रेयोऽर्थी दूरतस्त्यजेत् ॥ ४१ ॥
Ibid, नागरखं., ३२.
४८१ न सा विद्या न तच्छिल्पं न तत्कायं न सा कला ॥
अर्थाथिभिनं तज्ज्ञानं धनिनां यत्र दीयते ॥ ४३ ॥