व्यवहारचातुसंयोगः-गृहस्पतिनीतिसारः
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ॥
विभवे दानशक्तिश्च नाल्पस्य तंपसः फलम् ॥ ३ ॥
अग्निहोत्रफला वेदाः शोलवृत्तिफलं शुभम् १ ॥
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ ४॥
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ||
सुरूपां सुनितम्बां च नाकुलीनां कदाचन ॥५॥
अर्थेनापि हि किं तेन यस्यानर्थे तु सङ्गतिः ॥
को हि नाम शिखाजातं पन्नगस्य मणि हरेत् ॥ ६ ॥
हविर्दुष्टकुलाद्ग्राह्यं बालादपि सुभाषितम् ॥
अमेध्यात्काञ्चनं ग्राह्यं स्त्रीरत्नं दुष्कुलादपि ॥ ७ ॥
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ॥
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ ८ ॥
न राज्ञा सह मित्रत्वं न सर्पों निविषः क्वचित् ॥
न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥ ९॥
कुले नियोजयेद्भक्तं पुत्रं विद्यासु योजयेत् ||
व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोजयेत् ॥ १० ॥
स्थानेष्वेव प्रयोक्तव्या भृत्याश्चाभरणानि च ॥
न हि चूडामणिः पादे शोभते वै कदाचन ॥ ११ ॥
चूडामणिः समुद्रोऽग्निर्घण्टा चाखण्डमम्बरम् ॥
अथवा पृथिवीपालो मूर्ध्निपादे प्रमादतः ॥ १२ ॥
कुसुमस्तबकस्येव द्वे गतो तु मनस्विनः ॥
मूर्ध्नि वा सर्वलोकानां शीर्षतः पतितो वने ॥ १३ ॥
कनकभूषणसङ्ग्रहणोचितो
यदि मणिस्त्रपुणि प्रतिबध्यते ॥
न च विरौति न चापि स शोभते
भवति योजयितुर्वचनीयता ॥ १४ ॥
वाजिवारणलोहानां काष्ठपाषाणवाससाम् ॥
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ १५ ॥
'श्रुतम्' इ. पा.