स्तो त्र यो गः - नारायणस्तोत्रम्
४. नारायणस्तोत्रम् ( ब्रह्मपार : )
( पद्म, सृष्टिखण्ड, १४ )
उवाच -
परं पराणां परमं पुराणं परात्परं विष्णुमन्तवीर्यम् ॥
स्मरामि नित्यं पुरुषं वरेण्यं नारायणं त्रिप्रथमं पुराणम् ॥ १४० ॥
परापरं पूर्वजमुग्रवेगं गम्भीरगम्भीरधियां प्रधानम् ॥
नतोऽस्मि देवं हरिमोशितारं परं परं धामपरं च घाम ॥ १४१ ॥
परात्परं शुद्धपरं विशालं परापरेशं पुरुषं विशालम् ॥
नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज ॥ १४२ ॥
सदास्थितत्वात्पुरुषः प्रधानो ज्ञानं प्रधानं शरणं ममास्तु ||
नारायणं वीतमलं पुराणं परापरं विष्णुमदारपारम् ॥ १४३ ॥
पुरातनं नीतिमतां प्रधानं धृतिज्ञमाशान्तिपरं क्षितीशम् ॥
शुभं सदा स्तौमि महानुभावं सहस्त्रमूर्धानमनेकपादम् ॥ १४४ ॥
अनन्तबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम् ॥
नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशेरगम्यम् ॥ १४५ ॥
त्रिसर्गसंस्थं त्रिहुताशनेत्रं त्रितत्त्वलक्ष्यं त्रिलयं त्रिनेत्रम् ||
नमामि नारायणमप्रमेयं कृते सितं रक्ततनुं नरेशम् ॥ १४६ ॥
त्रेतायुगे पोततनुं नरेशं तथा हरि द्वापरतः कलौ च ॥
नमामि नारायणमप्रमेयं कृष्णं कृतात्मानमथो नमामि ॥ १४७ ।।
ससर्ज यो वक्त्रत एव विप्रं भुजान्तरे क्षत्त्रमथो रुयुग्मे ||
वैश्यं पदाग्रेषु तथैव शूद्रान्नमामि तं विश्वतनुं पुराणम् ॥ १४८ ॥
परात्परं पारगमप्रमेयं सुधापति कार्यत एव कृष्णम् ॥
गदासिचक्रानुसृतोग्रपाणि नमामि नारायणमप्रमेयम् ॥ १४९ ॥
विश्वमूर्ति महामूर्ति नारायणं त्रिमूर्तिकम् ||
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ।। १५० ।।
सहस्त्रशीर्षं देवेशं सहस्राक्षं महाभुजम् ॥
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ १५१ ॥
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ॥
नीलमेघप्रतीकाशं नमस्ये शार्गपाणिनम् ॥ १५२ ॥