६८
पुराणकाव्यस्तोत्रसुधा |
३७३ यथा दारुमयो योषिन्नृत्यते कुहकेच्छया ||
एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः ॥ १२ ॥
३७४ गृहारंभो हि दुःखाय विफलश्चाध्रुवात्मनः ॥
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥
३७५ न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि ॥
तथा च दुःखं मूढानां वृथाऽहङकरणं परम् ॥ १८ ॥
Ibid, ११, १०.
३७६ सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ॥ ६० ।। Ibid, ११, २३.
३७७ दुःखेन तप्येत सुखेन हृष्येत्समेन वर्तेत सदैव घोरः ||
दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ ८ ॥
मत्स्य, ३७
३७८ दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनं तथा ॥
तत्र मन्युर्न कर्तव्य एष धर्मः सनातनः ॥ ४१ ॥
३७९ पुत्रमित्रकलत्रार्थे राज्यभोगधनाय च ||
आगमे निर्गमे प्राज्ञो न विषादं समाचरेत् ॥ ४७ ॥
३८० यथा यथा समायान्ति पूर्वकर्मविधानतः ||
सुखदुःखानि दैत्येन्द्र नरस्तानि सहेत्तथा ॥ ४८ ॥
३८१ आपदामागमं दृष्ट्वा न विषण्णो भवेद्वशी ॥
संपदं च सुविस्तीर्णां प्राप्य नो धृतिमान्भवेत् ॥ ४९ ॥
३८२ घनक्षये न मुह्यन्ति न हृष्यन्ति धनागमे ।
घोरा: कार्येषु च तदा भवन्ति पुरुषोत्तमाः ॥ ५० ॥
३८३ दुःखेऽपि प्रियसङ्गो वं न दुःखाय प्रजायते ॥ ८४ ॥
३८४ समुत्पन्ने च दुःखे च यस्य बुद्धिविशिष्यते ॥
Ibid, १०, ५४.
तस्य दुःखं विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१ ॥
Ibid, ११, ९.
३८५ गर्भवासो हि दुःखाय न सुखाय कदाचन ॥ ५ ॥
वराह, १२७.
वामन, ७७.
शिव, शतरुद्रसं., ३८
Ibid, रुद्रखं., ४, १९.
स्कान्द, आवंत्यखं., रेवाखं., १४७.