काव्य योगः - त्रिपुरवर्णनम्
प्रियावगूढा दयितोपगूढा काचित्प्ररूढा गरुहाऽपि नारी ॥
सुचाबाष्पाकुरपलवानां नवाम्बुसिक्ता इव भूमिरासीत् ॥ ३५ ॥
शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम् ||
माधुर्यभूताभरणा महान्तः स्वना बभूवुर्मदनेषु तुल्याः || ३६ ॥
पानेन विना दयितातिवेलं कपोलमाजिघ्रसि कि ममेदम् ॥
आरोह मे श्रोणिमिमां विशालां पीतां काञ्चननेखालाढ्याम् ॥ ३७ ॥
रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु ॥
दंत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते ॥ ३८ ॥
अट्टाट्टहासेषु च चामरेषु प्रेङखासु चान्या मदलोलभावात् ॥
संदोलयन्ते कलसंप्रहासाः प्रोवाच काञ्ची गुणसूक्ष्मनादा ॥ ३९ ॥
अम्लानमालान्वितसुन्दरीणां पर्याय एषोऽस्ति च हषितानाम् ॥
श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंमशब्दाः ॥ ४० ॥
काञ्चीकलापश्च सहाङगरागः प्रेझखासु तद्रागकृताइच भावाः ॥
छिन्दन्ति तासामसुराङगनानां प्रियालयान्मन्मथ मार्गणानाम् ॥ ४१ ॥
चित्राम्बरश्चोद्धृ तकेशपाशः सदोल्यमानः शुशुभेऽसुरीणाम् ॥
सुचारुवेशाभरणं रुपेतस्त रागर्ज्योतिरिवास चन्द्रः ॥ ४२ ॥
संदोलनादुच्छ्व सितैश्छिन्नसूत्रेः काञ्ची भ्रष्टैर्मणिभिविप्रकीर्णैः ॥
दोलाभूमिस्तंविचित्रा विभाति चन्द्रस्य पाश्र्वोपगतविचित्रा ॥ ४३ ॥
सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम् ॥
शरव्ययं प्राप्य पुरेऽसुराणां प्रक्षीणबाणो मदनश्चचार ॥ ४४ ॥
इति तत्र पुरेऽमरद्विषाणां
सपदि हि पश्चिमकौमुदी तदाऽसीत् ॥
रणशिरसि पराभविष्यतां वं
भवतुरगं: कृतसंक्षया अरीणाम् ॥ ४५ ॥
चन्द्रोऽय कुन्दकुसुमाकरहारवर्णो
ज्योत्स्नावितानरहितोऽभ्रसमानवर्णः ।।
विच्छायतां हि समुपेत्य न भाति तद्व-
द्भाग्यक्षये घनपतिश्च नरो विवर्णः ॥ ४६ ॥
१२३