English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 270

Puran Kavya Stotra Sudha - Page 270

Puran Kavya Stotra Sudha - Page 270


स्तो त्र यो गः २
- सूर्यस्तोत्रम्
यन्मंडलं व्याधिविनाशदक्षं यदृग्यजु:सामसु संप्रगीतम् ॥
प्रकाशितं येन च भूर्भुवः स्वः पुनातु ०००...... ॥१४६॥
यन्मंडलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्धसंघाः ॥
यद्योगिनो योगजुषां च सघाः पुनातु ०००...... ॥१४७॥
यन्मंडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ॥
यत्कालकालादिमनादिरूपं पुनातु ००० ॥१४८॥
यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् ॥
यत्कालकल्पक्षयकारणं च पुनातु ०००...... ॥१४९॥
यन्मंडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ॥
यस्मिञ्जगत्संह रतेऽखिलं च पुनातु ०००...... ॥१५॥
यन्मंडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ||
सूक्ष्मांतरैर्योगपथानुगम्यं पुनातु ०००...... ॥१५१॥
यन्मंडलं ब्रह्मविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः ॥
यन्मंडलं वेदविदः स्मरन्ति पुनातु ००० ...... ॥१५२॥
यन्मडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ॥
तत्सर्ववेदं प्रणमामि सूर्य पुनातु ०००......॥१५३॥
मंडलाष्टमिद पुण्यं यः पठेत्सततं नरः ||
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥१५४॥
****.***
ध्येयः सदा सवितृमंडल मध्यवर्ती नारायणः सरसिजासनसंनिविष्टः ॥
केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्घृतशंखचक्रः ॥
सशंखचक्रं रविमंडले स्थितं कुशेशयाक्रान्तमनन्तमच्युतम् ॥
भजामि बुद्धया तपनीय मूर्ति सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||
कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं विभुम् ||१५७॥
वेदवेदाऊगशारीरं दिव्यदीप्तिकरं परम् ॥
रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८॥
एकचको रथो यस्य दिव्यः कनकभूषितः ॥
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९॥
३३
२५७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP