१०४
पुराणकाव्यस्तोत्रसुधा
।
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ॥
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताघरम् ॥ ३० ॥
न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङकुरैः ॥
खिद्यत्सुजातांघ्रितलामुन्निन्ये
इमान्यधिकमग्नानि पदानि वहतो वधूम् ॥
प्रेयसीं प्रियः ॥ ३१ ॥
गोप्यः पश्यत कृष्णस्य भाराकान्तस्य कामिनः ॥ ३२ ॥
अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ||
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ॥
प्रपदाक्रमणे एते पश्यतासकले पदे ॥ ३३ ॥
केशप्रसाधनं त्वत्र कामिन्या: कामिना कृतम् ॥
तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ ३४ ॥
रेमे तथा चात्मरत आत्मारामोऽप्यखण्डितः ॥
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ ३५ ॥
इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः ॥
यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥ ३६ ॥
सा च मेने तदाऽऽत्मानं वरिष्ठं सर्वयोषिताम् ॥
हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ ३७ ।।
ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् ||
न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ ३८ ॥
एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति ॥
ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ ३९ ॥
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज ॥
दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ ४० ॥
अन्विच्छन्त्यो भगवतो मार्ग गोप्योऽविदूरतः ॥
ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम् ॥ ४१ ॥
तया कथितमाकर्ण्य मानप्राप्ति च माधवात् ॥
अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥ ४२ ॥
ततोऽविशन् वनं चन्द्रज्योत्स्ना यावद्विभाव्यते ॥
तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ ४३ ॥