पुराणकाव्यस्तोत्रसुधा ।
गायन्त्यः प्रियकर्माणि रुदन्त्यश्च गतहियः ॥
तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ १० ॥
काचिन्मधुकरं दृष्ट्वा घ्यायन्ती कृष्णसङ्गमम् ॥
प्रियप्रस्थापितं दूत कल्पयित्वेदमब्रवीत् ॥ ११ ॥
गोप्युवाच –
मधुप कितवबंधो मा स्पृशांघ्रि सपत्न्याः
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १२ ॥
सकृदधरसुधां स्वां मोहिनों पाययित्वा
सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् ।।
परिचरति कथं तत्पादपद्मं तु पद्मा
ह्यपि बत हृतचेता उत्तमश्लोकजल्पैः ॥ १३ ॥
किमिह बहु षडत्रे गायसि त्वं यदूना-
मधिपतिमगृहाणामग्रतो नः पुराणम् ॥
विजयसखसखीनां गोयतां तत्प्रसङ्ग:
१३६
क्षपितकुचरजस्ते कल्पयन्तीष्टमिष्टाः ॥ १४ ॥
दिवि भुवि च रसायां काः स्त्रियस्तद्द, रापाः
कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ||
चरणरज उपास्ते यस्य भूतिर्वयं का
अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥ १५ ॥
विसृज शिरसि पादं वेद्म्यहं चाटुकारै-
रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ॥
स्वकृत इह विसृष्टापत्यपत्यन्यलोका
व्यसृजदकृतचेताः किं नु संधेयंमस्मिन् ॥ १६ ॥
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा
स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ॥
बलिमपि बलिमत्त्वावेष्टयद् ध्वाङ्क्षवद्य-
स्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १७ ॥