English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 203

Puran Kavya Stotra Sudha - Page 203

Puran Kavya Stotra Sudha - Page 203


पुराणकाव्यस्तोत्रसुधा |
कालमेघ-
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३ ॥ नीलमेघनिभः शुद्धः
निभस्तथा । धूमवर्णः पीतवर्णो नानारूपो ( २७० ) ह्यवर्णकः ॥ ४४ ॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च । सर्ववर्णो महायोगी यज्ञो (याज्यो)
यज्ञकृदेव च ॥ ४५ ॥ सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च ( २८० ) |
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६॥ सुवर्णस्य प्रदाता च सुवर्णेश-
स्तथैव च । सुवर्णस्य प्रियश्चैव सुवर्णाढयस्तथैव च ॥ ४७ ॥ सुपण
च महापर्णः सुपर्णस्य च कारणम् (२९० ) | वैनतेयस्तथादित्य आदिराविकर:
शिवः ॥ ४८ ॥ कारणं महतश्चैव प्रधानस्य च कारणम् । बुद्धीनां कारणं
चैव कारणं मनसस्तथा ॥ ४९ ॥ कारणं चेतसश्चैव (३००) अहङ्कारस्य
कारणम् । भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५० ॥ आकाशकारणं
तद्वत्पृथिव्याः कारणं परम् । अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१ ॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम् । श्रोत्रस्य कारणं (३१०) तद्वत्कारणं
च त्वचस्तथा ||५२|| जिह्वायाः कारणं चैव प्राणस्यैव च कारणम | हस्तयोः
कारणं तद्वत्पादयोः कारणं तथा ॥ ५३॥ वाचश्च कारणं तद्वत्यायोश्चैव तु
कारणम् । इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४ ॥ यमस्य कारणं
चैव (३२०) ईशानस्य च कारणम् । यक्षाणां कारणं चंव रक्षसां कारणं
परम् ॥ ५५ ॥ नृपाणां कारणं श्रेष्ठं धर्म्मस्यैव तु कारणम् | जन्तूनां कारण
चैव वसूनां कारणं परम् ॥ ५६ ॥ मनूनां कारणं चैव पक्षिणां कारणं परम् ।
मुनीनां कारणं श्रेष्ठं (३३०) योगिनां कारणं परम् ॥ ५७ ॥ सिद्धानां कारणं
चैव यक्षाणां कारणं परम् । कारणं किन्नराणां च गन्धर्वाणां च
कारणम् ॥ ५८ ॥ नदानां कारणं चैव नदीनां कारणं परम् । कारणं
च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९॥ कारणं वीरुधां चैव (३४०)
लोकानां कारणं तथा । पातालकारणं चैव देवानां कारणं तथा
।। ६० ।। सर्पाणां कारणं चैव श्रेयसां कारणं तथा । पशूनां कारणं
चैव सर्वेषां कारणं तथा ॥ ६१ ॥ देहात्मा चेन्द्रियात्मा च आत्मा (३५०)
बुद्धिस्तथैव च । मनसश्च तथैवात्मा चात्माहङकारचेतसः ॥ ६२ ॥ जाग्रतः
स्वपतश्चात्मा (३६०) महदात्मा परस्तथा । प्रधानस्य परात्मा च आका-
शात्मा ह्यां तथा ॥ ६३ || पृथिव्याः परमात्मा च रसस्यात्मा तथैव च ।
१८८

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP