१३२
पुराणकाव्यस्तोत्रसुधा ।
शिरीषपुष्पसंकाशाः शुका मिथुनकुञ्चिताः ॥
कोर्तयन्ति गिरश्चित्राः पूजिता ब्राह्मणा यथा ॥ ५० ॥
सहचारिसुसंयुक्ता मयूराश्चित्रबहिणः ||
वनान्तेष्वपि नृत्यन्ति शोभन्त इव नर्तकाः ॥ ५१ ॥
कूजन्तः पक्षिसंघाताः नानाद्रमविचारिणः ॥
कुर्वन्ति रमणीयं वै रमणीयतरं वनम् ॥ ५२ ॥
नानामृगणाकीर्णं नित्यं प्रमुदिताण्डजम् ॥
तद्वनं नन्दनसमं मनोदृष्टिविवर्धनम् ॥ ५३ ॥
१०. वाराणसीस्थित उद्यानवर्णनम्
( मत्स्य, अ. १८० )
निर्जगाम च देवेश: पार्वत्या सह शङ्करः ॥
उद्यानं दर्शयामास देव्या देव: पिनाकधूक् ॥ २३ ॥
देवदेव उवाच
प्रोत्फुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् ॥
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः ॥ २४ ॥
तमालगुल्मनिचितं सुगन्धिभिः सकणिकारंब कुलंश्च सर्वशः ॥
अशोकपुंनागवरैः सुपुष्पिर्तद्विरेफमालाकुलपुष्पसंचयैः ।। २५ ।।
क्वचित्प्रफुल्लाम्बुजरेणुरूषित विहङ्गमैश्चारुकलप्रणादिभिः ।।
विनादितं सारसमण्डनादिभिः प्रमत्तदात्त्यूह इतैश्च वल्गुभिः ॥ २६ ॥
क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम ||
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ॥ २७ ॥
मदाकुलाभिस्त्वमराङ्गनादिभिनिषेवितं चारुसुगन्धिपुष्पम् ॥
क्वचित्सुपुष्पैः सहकारवृक्षैलंतोपगूढैस्तिलकद्रुमैश्च ॥ २८ ॥
प्रगीतविद्याघरसिद्धचारणं प्रवृत्तनृत्त्याप्सरसां गणाकुलम् ॥
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ॥ २९ ॥
मृगेन्द्रनादाकुलसत्त्वमानसैः क्वचित्क्वचिद्वंद्वकदम्बकैर्मृर्गः ॥
प्रफुल्लनानाविधचा रुपङकर्जः सरस्तडागैरुपशोभितं क्वचित् ॥ ३० ॥