पुराणकाव्यस्तोत्रसुधा |
भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्न आपदः ||
अस्पष्टकोत्तिः सुयशा मूर्खो भवति पण्डितः ॥ ९४॥
२३८
६६. अगस्त्यकृत - कोल्हापुरस्था- लक्ष्मीस्तवनम्
( स्कान्द, काशीखण्ड, ५ )
अगस्तिरुवाच -
मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः ॥
क्षोरोदजे कमलकोमलगर्भगौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥८०॥
त्वं श्रीरुपेन्द्रसदने मदनैकमातर्ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहराये ॥
सूर्ये प्रभासि च जगत्त्रितये प्रभासि लक्ष्मि प्रसीद सतत नमतां शरण्ये ॥८१॥
त्वं जातवेदसि सदा दहानात्मशक्तिर्वेधास्त्वया जगदिदं विविधं विदध्यात् ||
विश्वंभरोऽपि बिभृयाद खिलं भवत्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥८२||
त्वत्त्यक्तमेतदमले हरते हरोऽपि त्वं पासि हंसि विदधासि परावरासि ॥
इंड्यो बभूव हरिरप्यमले त्वबाप्त्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥८३॥
शूरः स एव स गुणी स बुधः धन्यो मान्यः स एव कुलशीलकलाकलापैः ॥
एकः शुचिः स हि पुमान्सकलेऽपि लोके यत्रापतेत्तव शुभे करुणाकटाक्षः ॥
यस्मिन्वसे: क्षणमहो पुरुषे गजेऽश्वे स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने ॥
रत्ने पतत्त्रिणि पशौ शयने धरायां सश्रीकमेव सकले तदिहास्ति नान्यत् ॥
त्वत्स्पृष्टमेव सकलं शुचितां लभेत त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि ||
त्वन्नाम यत्र च सुमङगलमेव तत्र श्रीविष्णुपत्ति कमले कमलालयेऽपि ॥८६॥
लक्ष्मों श्रियं च कमलां कमलालयां च पद्मां रमां नलिनयुग्मकरां च मां च ।।
क्षीरोदजाममृतकुम्भकरामिरां च विष्णुप्रियामिति सदा जपतां क्व दुःखम् ॥
६७. सरस्वतीस्तवनम्
( वराह, ९१ )
पितामह उवाच -
जयस्व सत्यसम्भूते ध्रुवे देवि घरेऽक्षरे ॥९॥
सर्वगे सर्वजननि सर्वभूतमहेश्वरि ॥
सर्वज्ञा त्वं वरारोहे सर्वसिद्धिप्रदायिनी ॥१०॥
सिद्धिबुद्धिकरे देवि प्रसूति: परमेश्वरी ॥
त्वं स्वाहा त्वं स्वधा देवि त्वमुत्पत्तिर्वरानने ॥११॥