पुराणकाव्यस्तोत्रसुधा ।
कलाकलितविग्रहा
| सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ||१९७|| सर्वा
सर्वेश्वरी सूक्ष्मा सूक्ष्मज्ञानस्वरूपिणी । प्रधानपुरुषेशेषा महादेवकसाक्षिणी
॥१९८॥ सदाशिवा वियन्मूत्तिर्वेदमूत्तिरमूत्तिका || एवं नाम्नां सहस्रेण
स्तुत्वासौ हिमवागिरिः ॥१९९॥ ]
२४६
७०. अगस्त्यकृत- स्कन्दस्तवः
(स्कान्द, काशीखण्ड, २५ )
अगस्तिरुवाच -
नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय ॥
षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥१०॥
नमोऽस्तु तुभ्यं प्रणतातिहंत्रे कर्त्रे समस्तस्य मनोरथानाम् ॥
दात्रे रथानां परतारकस्य हंत्रे प्रचण्डासुरतारकस्य ॥ ११ ॥
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय ॥
अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ १२॥
नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय ||
हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥१३॥
तपःस्वरूपाय तपोधनाय तप. फलानां प्रतिपादकाय ॥
सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यं विरागिणे नमः ॥१४॥
नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपंक्तये ॥
बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥१५॥
मोढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ||
नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥१६॥
सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय ||
स्वाहेय गाडगेय च कात्तिकेय शंवेय तुभ्यं सततं नमोऽस्तु ॥१७॥
[ इत्थं परिष्टुत्य स कात्तिकेयं नमो नमस्त्वित्यभिभाषमाणः ॥
द्विस्त्रि: परिक्रम्य पुरो विवेश स्थितो मुनीशोपविशेति चोक्तः ॥१८॥]