श्रीकृष्ण उवाच ।
ज्येष्ठे मासि सिते पक्षे प्रथमेऽह्रि दिनोदये । देवोद्यानभवं ह्रद्यं करवीरं समर्चयेत् ॥१॥
रक्ततन्तुपरीधानं गन्धधूपविलेपनैः। विरूढैः सप्तधान्यैश्व नारङ्गैर्बीजपूरकैः ॥२॥
गुणकैर्घटकैर्दिव्यैर्नलिकेरैः सुशोभनैः। अभ्युक्ष्याक्षततोयेन मन्व्रेणैवं क्षमापयेत् ॥३॥
करवीर बिषा वाम नमस्ते भानुवल्लभ । मौलिमण्डनसद्रत्न नमस्ते केशवेशयोः ॥४॥
आकृष्णेन रजसा वर्तमानो निबेशयन्नमृतं मर्तेषु । हिरण्मयेन सविता रथेना देवो याति भुवनानि पश्यन् ॥५॥
एवं भक्त्या समभ्यर्च्य द्त्त्वा विप्रया दक्षिणाम् । प्रदक्षिणामयो कृत्वा ततः स्वभवनं व्रजेत ॥६॥
एतदव्रतं महाभाग सृर्यारावनकाम्यया । अनसूयया च क्षमया साविव्र्या सत्यभामया ॥७॥
दमयन्त्या सरस्वत्या गायव्र्या गङ्गया तथा । अन्याभिरपि नारीभिर्मर्त्यलोकेऽप्यनुष्ठितम् ॥८॥
करवीरव्रतं पार्थ सर्वसौख्यफलपदम् ॥९॥
संपूज्य रत्नकुसुमाञ्चिसर्वशाखं नीलैर्दलैस्तततनुं करवीरवृक्षम् । भुक्त्वा मनोऽभिलषितान्भुवि भव्यभोगानन्ते प्र्याति भवनं भरताग्रन्य भानोः ॥१०॥ [ ७११ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वाणि श्रीकृष्णयुधिष्ठिरसंवादे करवीरव्रतवर्णनं नाम दशमोऽध्यायः ॥१०॥