श्रीकृष्ण उवाच ॥
अथातः संप्रवक्ष्यामि धेनूनां कल्पना नृप । विशेषविधिना याश्व देयाः कामानभीप्सुभिः ॥१॥
सांगं यद्दीयते दानं समग्रं तत्सुखावहम् । असमग्रं तु दोषाय भवतीह परत्र च ॥२॥
तस्मान्न दक्षिणाहीनं विधानविकलं तथा । देयं दानं महाराज समग्रफलकाभ्यया ॥३॥
अन्यथा दीयमानं तदहंकाराय केवलम् । प्रत्यक्षं चार्थहानिःस्यान्न वा तत्फलदं भवेत् ॥४॥
तिल धेनुं प्रवक्ष्यामि शृणु पार्थिवसत्तम । वाराहेण पुरा प्रोक्तां महाप तकनाशिनीम् ॥५॥
यां दत्वा ब्रह्महा मोघ्नः पितृहा गुरुतल्पगः । अगारदाही गरदः सर्वपापरतोपि वा ॥६॥
महापातकयुक्तश्व संयुक्तश्वोपपतकैः । मुच्यते ह्यखिलैः पापैः स्वर्गलोकं च गच्छति ॥७॥
अनुलिप्ते महीपृष्ठे कृष्णा जिनसमावृते । धेनुं तिलमया कृत्वा दर्भानास्तीर्य सर्वतः ॥८॥
तिलाः श्वेतास्तिलाः कृष्ण स्तिला गोमूत्रवर्णकाः । तिलानां च विचित्राणां धेनुं सर्वा च कारयेत् ॥९॥
द्रोणस्य वत्सकं कुर्याच्चतुराढ किकां च गाम । स्वर्णश्रृंगी रौप्यखुरां गंधवर्णवतीं तथा ॥१०॥
कार्या शर्करया जिह्रा गुडेनास्यं च कंबलम् ॥ इक्षुपादां ताम्रपृष्ठींशुक्तिमुक्ताफलेक्षणाम् ॥११॥
प्रशस्तपत्रश्रवणां फलदंतवतीं शुभाम् । स्त्रग्दामपुच्छां कुर्वीत न वनीतस्तनान्विताम् ॥१२॥
सितवस्त्रशिरालंवां सितसर्षपरोमिकाम् । फलैर्मनोहरैरन्नैर्मणिमुक्ताफलान्विताम् ॥१३॥
ईदृक्संस्थानसंपन्ना कृत्वा श्रद्धासमन्वितः । कांस्योपदोहनां दद्यात्पर्वकाले समागते ॥१४॥
या लक्ष्मीः सर्वभूतानां या वै देवेष्ववस्थिता । धेनुरुपेण सा देवी मम पापं व्यपोहतु ॥१५॥
ततः प्रदक्षिणां कुत्वा पूजयित्वा प्रणम्य च । सदक्षिणा मया तुभ्यं दत्ते त्युक्त्वा विसर्जयेत् ॥१६॥
अनेन विधिना दत्वा तिलधेनुं नराधिष । सर्वपापविनिर्मुक्ता परं ब्रह्माधिगच्छति ॥१७॥
यश्व गृह्यति विधिवद्दीयमानां प्रमोदते । दीयमानां प्रशंसति ये च संहृष्टमानसः ॥१८॥
तेपि दोषविनिर्मुक्ता ब्रह्मलोकं व्रजंति ते । प्रशांताय सुशीलाय वेदव्रतरताय च ॥१९॥
धेनुं तिलमर्यी दत्वा न शोचति कृताकृते । त्रिरावं यस्तिलाहारस्तिलधेनुप्रदो भवेत् ॥२०॥
एकाहमथवा राजन्नयुच्छेदंतरात्मना । दानाद्विशुद्धिः पापस्य तस्य पुण्यवतो नृप ॥२१॥
चान्द्रायणादभ्यधिकं कथितं तिलभक्षणम् । बालत्वे चैव यत्पापं यौवनें वार्द्धके तथा ॥२२॥
वाचाकृतं तु मनसा कर्मणा यच्च संचितं । उदकष्ठीवने चैव नग्नस्नानेन यद्भवेत ॥२३॥
मुशलेनोद्यतेनापि लंबिते ब्राह्मणे तथा । वृषलीगमने चैव गुरुदाराभिगामिनी ॥२४॥
सुरापानेन यत्पापमभक्षयस्य च भक्षणात् । तत्सर्वं विलयं याति तिलधेनुनुप्रदायिनी ॥२५॥
यममार्गे महाघोरे नदी वैतरणी स्मृता । वालुकायाः स्थलं चैव पच्य़ंते यत्र पापिनः ॥२६॥
यत्र लोहमुखाहाः काका यत्रश्वानो भयावहाः । निकृत्य पापिनां मांसं भक्षयंति बुभुक्षिताः ॥२७॥
असिपत्रवनं चैव लोहकंटकशाल्मलीम् । एतान्सर्वानतिक्रम्य ततो यमपुरं व्रजेत् ॥२८॥
विमाने कांचने दिव्ये मणिरत्नाविभूषिते । तत्रारुह्य नरश्रेष्ठो गच्छते पर माङ्गतिम् ॥२९॥
गुणहीने न दातव्या न दातव्या धनेश्वरे । कुण्ड गोले च लुब्धे च न च देया कदापि सा ॥३०॥
एका एकस्य दातव्या मुनिभिः कथितं पुरा अरण्ये नैमिषे पार्थ नारदेन निवेदितम् ॥३१॥।
तत्तेहं संप्रवक्ष्यामि सम्यक्फलसहस्त्रदम् । इदं पुण्यं पवित्रं च माङ्गल्यं कीर्तिवर्धनम् ॥३२॥
विप्राणां श्रावयेच्छ्राद्धे अनन्तफलमश्रुते । वहूनां न प्रदेयानि गौर्गृहंशयनंस्त्रियः ॥३३॥
विभज्यमानान्येतानि दातारं पातयंत्यधः सा तु विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥३४॥
अस्या दानप्रभावेन विमानं सर्वकामिकं । समारुह्य नरो याति यत्र देवो हरिः स्वयम् ॥३५॥
एषाचैव प्रदातव्या प्रयतेनान्तरात्मना । पौर्णमास्यां च माघस्य कार्तिक्यां चैव भारत ॥३६॥
चन्द्रसूर्योपरागे तु विषुवेअयने तथा । षडशीतिमुखे चैव व्यतीपाते तु सर्वदा ॥३७॥
वैशाख्या मार्गशीर्ष्या बागजच्छायासु चैव हि । एषा ते कथिता पार्थ तिलधेनुर्मयानघ ॥३८॥
यावंति धेनोरोमाणि गात्रेषु नृपपुङ्गत्व । तावद्वर्षसहस्त्राणि तदा स्वर्गे महीयते ॥३९॥
यश्व गृह्याति विधिवद्दीयमानां च पश्यति । अनुमोदयते चैव ते सर्वे स्वर्गगामिनः ॥४०॥
धेनुं धनाधिपतयोमगधोद्भवेन मानेन ये तिलमयीं चतुराढकेन । कृत्वा यथोक्तरचनां कृतचारुवत्सां यच्छंति ते भुवि विमुक्तपापाः ॥४१॥
प्रतिगृह्रामि देवि त्वां कुटुंबभरणाय च । कामानयादयास्माकं घेनो त्वं सर्वदा हासि ॥४२॥ [ ६७६७ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिलधेनुदानव्रतविधिवर्णनं नाम द्विपंचाशदुत्तरशततमोऽध्यायः ॥१५२॥