श्रीकृष्ण उवाच ॥
जलधेनुं प्रवक्ष्यामि प्रीतये दत्तया यया । देवदेवो हृषीकेशः पूजितः सर्वभावनाः ॥१॥
जलकुंभं नरव्याघ्र स्थापयित्वा सुपूजितम् । रत्नगर्भ तु तं कृत्वा ग्राम्यैर्धान्यैः समन्वितम् ॥२॥
सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम् । कुष्ठमांसी पुरोशीरवालकाममलकीयुतम् ॥३॥
मियङ्गगुपत्रसहितांसितज्ञोपवीतिनम् । सच्छत्रं सोपानहं च दर्भविष्टरसंस्थितम् ॥४॥
चतुर्भिः संयुतं रौप्यं तिलपत्रैश्चतुर्दिशम् । स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखम् ॥५॥
सवत्सां च प्रतिष्ठाप्य गोमयेनोपशोभिताम् । स्त्रग्दापुच्छीं कुर्वीत ताम्रदोहनकान्विताम् ॥६॥
ततः समभ्यर्च्य विभुं वासुदेवं सनातनम् । पुष्पधूपोपहारैश्व यथाविभवमात्मनः ॥७॥
संकल्प्य जलधेनुं च कुंभं तमभिमंत्र्य च । विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥८॥
सोमशक्रार्कशक्तिर्या धेनुरुपेण सास्तु मे । एतमामंत्र्य विधिवत्सफलां वत्सकान्विताम् ॥९॥
भक्त्या संपूज्यं गोविंदं जलशायिनमच्युतम् । सितवस्त्रधरंशांतो वीतरागोविमत्सरः ॥१०॥
दद्याद्विप्राथ राजेन्द्र प्रीत्यर्थ जलशायिनः । शेषपर्यकशयनः श्रीमाञ्छार्ङ्गविसूधितः ॥११॥
जलशायी जगद्योनिः प्रीयतां मस केशवः । इत्युच्चार्य जगन्नाथं विप्राय प्रतिपाद्यताम् ॥१२॥
तद्दिनं गोव्रतस्तिष्ठेच्छ्रेद्धया परया युतः । अनेन विधिनादत्वा जलधेनुं जनाधिप ॥१३॥
सर्वभोगानवाप्नोति ये दिव्या ये च मानुषाः शरीरारोग्यमतुलं प्रशमं सर्वकालिकम् ॥१४॥
नृणां भवंति दत्तायां सर्वे कामा न संशयः । अत्रापि श्रूयते भूप मुद्रलेन महात्मना ॥१५॥
जातिस्मरेण यद्रीतमिहाभ्येत्य पुरा किल । स मुद्नलः पुरा विप्रो यमलोकगतो मुनिः ॥१६॥
ददर्श यातनानेकाः पापकर्मकृतांनृणाम् । दीप्ताग्निक्ष्णन्त्रस्थाः क्काथतैलमयास्तथा ॥१७॥
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ । व्रणक्षारनिपातोथ कुंभीपाकमहालयाः ॥१८॥
ता दृष्ट्रवा यातना विप्रश्वकार परमां कृपाम् । आह्रादं ते तदा जग्मुः पापास्तदनुकंपया ॥१९॥
तं दृष्ट्रवा नारकः केचिस्त्थित्वा तदवलोकिनः । तदवस्थं विलोक्याथ मुनिर्नारकिमण्डलम् ॥२०॥
धर्मराजं सपप्रच्छ तेषां प्रशमकारणम् । तस्मै चाचष्ट राजेन्द्र तदा वैवस्वतो यमः ॥२१॥
आह्रादहेतुमधिकं नारकाणां नरोत्तम । दानानुभावात्सर्वेषां नारकाणां द्विजोत्तम ॥२२॥
स प्रवृत्तोऽयमाह्रादः कारणं तच्छुणुष्व मे । त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम् ॥२३॥
जलधेनुः पुरा दत्ता विधिवदिद्वजपुङ्गव । अस्मात्वज्जन्मनोऽती ते तृतीये द्विजजन्मनि ॥२४॥
तस्य दानस्य ते युष्टिरियमाह्राददायिती । ये त्वां पश्यंति शृण्वंति ये च ध्यायंति मानवाः ॥२५॥
शृणोषि यांश्व विप्रेन्द्र यांश्व ध्यायसि पश्यसि । निर्वृत्तिः परमा तेषां सर्वाह्रादप्रदायिनी ॥२६॥
सद्यो भवति माऽत्र त्वं द्विजाते कुरु विस्मयम् । आह्रादहेतुजननं नास्ति विप्रेन्द्र तादृशम् ॥२७॥
जलधेनुर्यथा नृणां जन्मान्येकोनर्विशतिम् । न दोषो न ज्वरो नार्ति र्नक्लमो द्विज जायते ॥२८॥
अपि जन्मसहस्त्रेऽपि जलधेनुप्रदायि नाम् । स त्वं गृच्छ गृहीत्वार्धमस्मत्तोद्विजसत्तम ॥२९॥
येषां समाश्रयः कृष्णे न नियम्या हि ते मया । कृष्णस्तु पूजितोयैस्तु ये कृष्णार्थमुपोषिताः ॥३०॥
यैश्व नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः । नमः कृष्णाच्युतानंतवासुदेवेत्युदीरितम् ॥३१॥
वैर्भावभावितैर्विप्र न ते मद्विषयोपगाः । दानं ददद्धिर्यैरुक्तमच्युतः प्रीयतामिति ॥३२॥
श्रद्धापुरः सरैर्विप्र न ते मद्विषयोपगाः । स एव नाथः सर्वस्य तन्नियोगकरावयम् ॥३३॥
जनसंयमनश्वाहमस्मत्संयमनो हरिः । इत्थं निशम्य वचनं यमस्य वदतोऽखिलम् ॥३४॥
ऊर्चुस्ते नारकाः सर्वे वह्रिशस्त्रार्कभीरवः । नमः कृष्णाय हरये विष्णवे जिष्णवे नमः ॥३५॥
हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च । नमः पडकजनेत्राय नमः पड्कजनाभये ॥३६॥
जनार्दनाय श्रीशाय श्रीभर्त्रे पीतवाससे । गोविंदाय नमो नित्यं नमश्वोदधिशायिने ॥३७॥
नमः कमलनेत्राय नृसिंहाय निनादिने । शार्ङ्गिणे शितखड्गाय शङ्खचक्रगदाभृते ॥३८॥
नमो वामनरुपाय क्रांतलोकत्रयाय च । वराहरुपाय तथा नमो यज्ञाङ्गधारिणे ॥३९॥
व्याप्ताशेषदिगतायानंताय परमात्मने । वासुदेव नमस्तुभ्यं नमः कैटभसूदिने ॥४०॥
केशवाय नमो राम नमस्ते स्तु महीधर । नमोऽस्तु वासुदेवाय ह्येवमुच्चारिते च तैः ॥४१॥
शस्त्राणि कुंठतां जग्मुरनलश्वापि शीतताम् । समभज्यंत वस्त्रणिसमुत्पेतुरयोमुखाः ॥४२॥
संशुष्काः क्षारसरितः पतितः शाल्मलिद्रुमः । प्रकाशास्तमसौ जग्मे नरकाद्धानुभिः सह ॥४३॥
बवौ च युंजन्पवनोऽप्यसिपत्रवनं ततः । निरुत्साहा जडावेयो बभूवुर्यमकिंकराः ॥४४॥
जाता गंगबुवाहिन्यः पूयशोणितानिम्रगः । दिव्यः सुगंधि पवनो मनः प्रीतिकरस्तथा ॥४५॥
वेणुवीणास्वनयुताः शब्दाश्वासन्मनोरमः । तं तादृशमथालक्ष्य तदावैवस्वतो यमः ॥४६॥
क्षीणपापत्रयांस्तांस्तु पाद्यार्घ्यैः समपूजयत् । पूजयित्वाचतानाह स कृष्णाय कृतांजलिः ॥४७॥
समाहितमतिर्भूत्वा धर्मराजो नरेश्वर । विष्णो देव जगद्धातर्जनार्दन जगत्षते ॥४८॥
प्रणामंयेऽपिकुर्वन्तितेषामपि नमोनमः । अच्युताया प्रमेयाय मायावामनरुषिणे ॥४९॥
प्रणामंयेऽपि कुर्वन्ति तेषामपि नमोनमः । नमस्ते वासुदेवाय धीमते पुण्यकीर्तये ॥५०॥
प्रणामं ये च कुर्वन्ति तेषामपि नमो नमः । तस्य यज्ञवराहस्य विष्णोरमिततेजसः ॥५१॥
एवं स्तुत्वा हृषीकेशं धर्मराजस्य पश्यतः । विमानवरमारुह्य नारकास्त्रिदिवं ययः ॥५२॥
मुद्नलोऽपि महाबुद्धिर्दृष्टवैतदखिलं नृप । जातिस्मनोऽभवद्विप्रः कण्बगोत्रे महामुनिः ॥५३॥
संस्मृत्य यमवाक्यान विष्णोर्माहात्म्यमेव च । जलधेनोस्तु माहात्म्यं संस्मृत्येदमगायत ॥५४॥
अहो सुदुस्तरा विष्णोर्माथेयमतिगह्ररी । यया मोहितचित्तेरतु न वेत्ति परमेश्वरम् ॥५५॥
जीवो गच्छति कीतत्व यकामत्कुणयोनिताम् । तस्माद्द्रमलतादीनांयोनिंतस्माच्च पक्षिणाम् ॥५६॥
ततश्व पशुतां प्राप्य नरत्वमभिवांछति । ततो मानुष्यतां प्राप्य नरो योनिं कृतात्मनाम् ॥५७॥
तां प्राप्य च श्रियं परां नरा मायाविमोहिताः । दुरतरापि सुसाध्या सह माया कृष्णस्य मोहिनी ॥५८॥
विद्यते सा मनोन्यस्ता मुधैव मधुसूदने । अवार्प्यैवं च गार्हस्थ्यमवाप्यैवं च तत्परम् ॥५९॥
छिनत्ति वैष्णविं मायां केशवार्पितमानसः । अविरोधेन विषयान्भुञ्जीन्वष्णुं समाश्रयेत् ॥६०॥
भुक्त्वा नरतरत्येनां विष्णोर्मायां सुदुस्तराम् । ईदृग्बहुफला भक्तिः सर्वधातरि केशवे ॥६१॥
मायया तस्य देवस्य तां न कुर्वति मोहिताः । मुधैवोक्तं सुधापानं मुधा तद्धि यिचेष्टितम् ॥६२॥
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः । आराधितो हि यः पुंसामैहिकामुष्मिकं फलम् ॥६३॥
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् । संवत्सरास्तथ मासा विफला दिवसाश्व ते ॥६४॥
नराणां विषयान्धानां यैस्तु नाराधितो हरिः । यो न वित्तर्द्धिविभवैर्न वासोभिर्नभूषणैः ॥६५॥
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् । जलधेनोस्तु माहात्म्यं शिशम्येदृग्विधं नरः ॥६६॥
नात्र यच्छति तेषां वै विवेकः कुत्र तिष्ठति । कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि ॥६७॥
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः । संप्राप्य च न यैर्विष्णुस्तोषितो जलधेनुना ॥६८॥
ते जना भ्रष्टजन्मानो वंचितास्तस्य मायया । ऊर्ध्वबाहुर्विरौध्येष दृष्टलोकद्वयोऽस्मि भोः ॥६९॥
आराधयध्वंगोविन्दंजल वेनुंप्रयच्छत । दुःसहो नारको विह्रिरविष्ह्या यातना ॥७०॥
ज्ञातं मयैतदालभ्य कृष्णं भवति निश्वलम् । आदेशिको देशिको हि यममार्गे सुदुस्तरे ॥७१॥
विचिन्त्य तत्सत्यमेन्मनः कृष्णे निवेश्यताम् । इष्टेन किं क्रतुशतेन सुदुष्करेण क्लेशाधिकेन किमु कृतैर्नियमैर्व्रतैश्व । दत्वा द्विजाय पितृराजगृहं गतस्य ह्येकाऽपि गौर्जलमयी सुखमातनोति ॥७२॥ [ ६८३९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जलधेनुदानव्रतविधिवर्णनं नाम त्रिपंचाशदुत्तरशततमोऽध्यायः ॥१५३॥