युधिष्ठिर उवाच ॥
भगवन्भूतभव्येश संसारार्णवतारक । व्रतं कथय किञ्चिन्मे रूपसौभाग्यदायकम् ॥१॥
श्रीकृष्ण उवाच । किंकृतैर्बहुभिः पार्थ व्रर्तैरुन्मत्तचेष्टितैः कायक्लेशकरेः कुरैरसारैः फलसाधनैः ॥२॥
वरमेकापि वरद । कृतानंगव्रयोदशी । प्रसिद्धिं समनुप्राप्त मर्त्ये कामप्रदायिनी ॥३॥
सौभाग्यारोग्यजयदा सर्वातंकनिवारिणी । सर्वदुष्टोपशमनी सर्वभङ्गलवर्धनी ॥४॥
शृणुष्व ता महाबाहोकथयामि सविस्तरम् । पुरा दग्घेन कामेन व्रिनेव्रनयनाग्निना ॥५॥
भस्मीभूतेन लोकानां संकल्पिता पुरानघ । अनंगेन कताह्येषा तेनानंगव्रयोदशी ॥६॥
हेमंते समनुप्राप्ते मासि मार्गशिरे शुभे शुक्लपक्षे व्रयोदश्यां सोपवासो जितेन्द्र्यः ॥७॥
स्नानं नद्यां तडागे च गृहे वा नियतान्मवान् । कृत्वा समभ्यर्च्य विभुं विधिना शशिशेखरम् ॥८॥
धूपदीपैः सनैवेद्यै पुष्पै कालोद्भवैस्तथा । शंभनामान्यथोच्चार्य होमः कार्यस्तिलाक्षतैः ॥९॥
अनंगनाम्ना संपुज्य मधु प्राश्य स्वपेन्निशि । नैवेधैर्मधुरैर्दिव्यैः सुरवादैर्घृतपाचितैः ॥१०॥
धूपं सुगंधं दद्याच्च रक्तपुष्पै तु पूजनम् । रंभातुल्या भवे सातुरूपयौवनशालिनी ॥११॥
मधूवत्स्यात्समधुरः कामरू । धरस्तथा । दशानामश्वमेधानां फलं प्रान्पोति मानवः ॥१२॥
पुष्यमासस्य चैवोक्तं चंदनं प्राशयेन्निशि । योगेश्वरांतुसंपूज्यमालतीकृसुमैः शुभैः ॥१३॥
नेवेद्यं घृतपक्वानां सदा शान्तास्तु ताः स्त्रियः । सौभ्याशीतसुगन्धाढन्यचन्दनप्राशनोद्भवैः ॥१४॥
राजसुयस्य यज्ञस्य फलं प्रान्पोत्यनुत्तमम् । माघे नटेश्वरं नाम पूजयेत्पंकजेन तु ॥१५॥
नैवेद्यं क्षीरखंडाद्यैर्मौक्तिकं प्राशये न्निशि । बहुपुवा भवेत्सा तु धनं सौभाग्यमुत्तमम् ॥१६॥
मुक्ताचूर्णनिभैर्नैव्रैर्यद्वा यात्तद्वदेव हि । गौरीतुल्याभवेत्सातुकोमलाङ्गप्रजायते ॥१७॥
तप्तजांबूरूदाभासोभवेद्दिव्यतनुर्महान् । गोमेधस्य सहस्त्रस्य फलं प्रन्पोति मानवः ॥१८॥
फाल्गुने मासि संपूज्य देवदेवं हरेश्वरम् । काञ्चनारस्यपुष्पाणि नैवेद्ये बीजपूरकम् ॥१९॥
कंकोलं प्राशयेद्राव्रौ सौंदर्यमतुलं लभेत् । चैवे सुरूपकं नाम पूजयेद्दमनेन तु ॥२०॥
नैवेद्यं धूयकं दद्याद्घृतखण्डविपाचितान् । कर्पूरं प्राशयेद्राव्रौ सौभाग्यं महादन्पुयात् ॥२१॥
चन्द्रस्य चन्द्रकांतिश्व चन्द्रवसिंहरावृते । नरमेघस्य यज्ञस्य फलं प्रान्पोति शोभनम् ॥२२॥
वैशाखेच महारूपं पुष्पैर्नौमालिकार्चनम् । कांरंबकैःतुनैवेद्यंदातव्यं चातिशोभनम् ॥२३॥
जातीफलं तु संप्राश्य जातिमान्पो यनुत्तामाम् । सफलास्त य सर्वाशा भवन्ति भुवि भारत ॥२४॥
मोसहस्त्रफलं प्राप्य ब्रह्मलोके महीयते । ज्येष्ठे मासे तु प्रद्युन्मं पूजयेन्मल्लिकास्त्रजैः ॥२५॥
नैवेद्यं खडवर्ति च लवंगं प्राशयेन्निशि । ज्येष्ठं पदमवान्पोति तथा लक्ष्मीं जनार्दनात् ॥२६॥
सर्वसौस्यसमोपेतां स्थित्वा शुवि शतं समाः । वाजपेयरय यज्ञर शतमष्टगौणोत्तरम् ॥२७॥
आषाढे चेव्र संप्राप्ते उमाभर्तारमर्चयेत् । पुष्पधृपादिगैवेद्यैः प्राशयीत तिलोदकम ॥२८॥
तिलोत्तमारूपधरा सुखी स्याच्छरदः शतम् । श्रावणे उमापतिं नाम तिलपुष्पैस्तु पूजनम् ॥२९॥
नैवेद्यं लड्ढुकान्दद्यात्कृष्णांश्व प्राशयोत्तिलात् । पौंडरीकस्य यज्ञस्य फलं प्रान्पोत्यनाकुलम् ॥३०॥
तदंते राजराजः स्याच्छव्रुपक्षक्षयंवरः । सद्योजातं भाद्रपदे पूज्य कुंकुमेकशरैः ॥३१॥
नैवेद्यं सोलिकां दद्यात्प्राशयेदगुरुं निशि । अगुरुं प्राशयित्वा तु गुरुर्भवति भतले ॥३२॥
पुव्रपौव्रैः परिवृतो भुक्त्वाभोग न्मनोऽनुगान् । उक्तयज्ञफलं प्राप्य विष्णुलोके महीयते ॥३३॥
व्रिदशाधिपतिमश्वयुजि पूज्य सिंदूरवस्त्रस्त्रैः । स्वर्णादिकं तु संप्राश्य स्वर्णवर्ण प्रजायते ॥३४॥
रूपवान्सुभगो वाग्मी भुक्त्वा भोगान्महीतले । सुवर्णकोटिदानत्य फलं प्रान्पोति मानवः ॥३५॥
विश्वेश्वरं कार्तिके तु सर्वपुष्पै तु पूजयेत् । दमनस्य फलं प्राश्य दमनेन पुमान्भवेत ॥३६॥
दमनोःमादकर्ता च सर्वस्य जगतः प्रभुः । भवेद्भुजबलोपेतस्ततः शिवपुरं व्रजेत ॥३७॥
एवं संवत्सरस्यांते पारितेऽस्मिन्द्रतोत्तमे । यत्कर्तव्यं तदधुना श्रूयतां यदुनंदन ॥३८॥
व्रते विघ्नं यदा च स्यादशक्त्या सूतकेन वा । उपोष्यमेवतेनाथ ततः सर्वं स्थितं भवंत् ॥३९॥
पूर्वीक्तमेवं निर्वर्त्य सौवर्णं कारयेच्छिवम् । ताम्रपाव्रे तुर संस्थाप्य कलशोपतिविन्यसेत् ॥४०॥
शुक्लवस्त्रेण संछाद्य पुष्पनैवेद्यपूजितम् । ब्राह्मणाय प्रदातव्यं शिवभक्ताय सुव्रते ॥४१॥
शक्तिमाञ्छयनं दद्याद्नां सवत्सां पयत्विनीम् । छव्रोपानत्प्रदातव्यंकलशान्सोदकांस्तथा ॥४२॥
शांताश्व केचिदिच्छंति शक्तिं दद्याच्च दक्षिनाम् । पञ्चामृतेन स्त्रानं च तस्मिन्नहनि कारयेत ॥४३॥
देवदेवस्य राजेन्द्र पुष्पदीपान्नसंयुत्तम् । भोजनं च यथाशक्त्या शड्रसं मधुरोत्तरम् ॥४४॥
प्रदद्याच्छिवभक्तानां विशुद्धेनांतरात्मना । एवं निर्वर्त्य विधिवत्कृतकृत्यः पुमात्भवेत् ॥४५॥
नारी वा भारतश्रेष्ठ कुमारी वा यतव्रता । पारिते तु व्रते पश्वात्कुर्याच्च सुमहोत्सवम् ॥४६॥
अनेन विधिना क्रर्याद्यस्त्वनंगव्रयोदशीम् । स राज्यं निहतामिव्रं कीर्तिरायुर्यशो बलम् ॥४७॥
सौभाग्यं महदान्पोति यावज्जन्मशतं नृप । ततो निर्वाणमायाति शिवलोकं च गच्छति ॥४८॥
कामेन या किल पुरा समुपोषितासीच्छभ्रा तिथिस्त्रिदशमी सुशभांगहेतोः । तां प्राशनैरुदितनामुयुतैरुपेतां कृत्वा प्रयायि परमं पदमिंदुभौलेः ॥४९॥ [ ३८२६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वण्यनंगव्रयोदशीव्रतवर्णनंनाम नवतितमोऽध्याय़ः ॥९०॥