युधिष्ठिर उवाच ॥
कृष्ण केयं जनैः सर्वैर्विष्टिर्भद्धेति चोच्यते । कस्यात्मजेयं किंरुपा पूज्यते च कथं जनैः ॥१॥
श्रीकृष्ण उवाच ॥ सुता मार्तडेदेवस्य छायया जनिता पुरा । शनैश्वरस्य सोदर्या भगन्यतिभयंकरी ॥२॥
सा जातमात्रा भुवनं ग्रस्तुं समुपचक्रमे । कृष्णा करालवदना सितदंष्ट्रोर्ध्वमूर्द्धजा ॥३॥
निर्याति यदि कार्येण कश्चित्तस्य पुरः स्थिता । विघ्नं करोति स्वपतो भुञ्जानस्य स्थितस्य वा ॥४॥
यज्ञविध्नकरी रौद्रा ल्समाजोत्सवनाशिनी । नित्योद्वेगकरी रौद्रा विनाशयति सा जगत् ॥५॥
तां तु दुर्वियासक्तां दृष्टाव देवो दिवाकरः । चिंतयामास कस्यापि यच्छाम्येनां सुमध्यमाम् ॥६॥
कन्यादुर्बिनयाच्चेह पिता दोषेण गृह्यते । युवत्यास्तु ततो भर्ता तस्माद्भर्तृगृहं नयेत् ॥७॥
विचिंत्यैवं सुतां भद्रां यस्य यस्य प्रयच्छति । ते नमंति क्षणेनैव सुरराक्षसकिन्नराः ॥८॥
मंडपं मंडपारम्भं भक्त्वा भीषयते जनम् । विवस्वांश्वितयाविष्टः कस्येयं प्रतिपाद्यताम् ॥९॥
विरुपा दुष्टहृदया स्वेच्छाचारविहारिणी । दत्ताप्येषा न दोषाय भवतीह कथंचन ॥१०॥
वितर्कयन्यावदेवमास्ते देवो दिवस्पतिः । तावत्तया जगत्सर्व दुष्टया समभिद्रुतम् ॥११॥
अथाजगम सवितुः पार्श्वे ब्रह्माऽण्डसंभवः । कार्य निवेदयामास विष्टेदौष्टयमशेषतः ॥१२॥
भास्करस्तमुवाचाथ ब्रह्माणं भुवनेश्वरम् । भवान्कर्ता न हर्ता कस्मादेवं प्रभाषसे ॥१३॥
एवमुक्तस्तदा ब्रह्मा भास्करेनामिद्युतिः । उवाच विष्टिमानाय्य शृणु भद्रे मयोदितम् ॥१४॥
करणैः सह वर्तस्व बवबालवकौलवैः । सप्तमेऽर्धदिने प्राप्ते यदभीष्टं कुरुष्व तत् ॥१५॥
यात्रा प्रवेशमांगल्यकृषिवाणिज्याकारणात् । भक्षयस्वाभि मुखगान्नरानुन्मार्गगामिनः ॥१६॥
उद्वेजनीयो नो हि जनो भवत्या दिवसत्रयम् । पूज्या सुरासुरानां त्वं दिवसार्द्धे भविष्यसि ॥१७॥
उल्लंघ्य ये प्रवर्तते भद्रे त्वाम निर्भया त्वां निर्भया नराः । तेषां विनाशयाशु त्वं कार्यमार्ये सुखी भव ॥१८॥
एवमुक्त्वा गतो ब्रह्मा भ्रद्रापि भुवनत्रयम् । बभ्रामोद्भ्रातह्रदया भीषयंती सुरासुरान् ॥१९॥
एवमेषा समुत्पन्ना विष्टिरिष्टविनाशिनी । निवेदिता ते कौतेय तस्मात्तां परिवर्ज्जयेत् ॥२०॥
असितजलदवणी दीर्घनासोग्रदंष्ट्रा विपुलहनुकपाला पिंडिकोद्वद्धजंघां । अनलशतसहस्त्रं चोद्धिरंती समंतात्पतति भुवनमध्ये कार्यनाशाय विष्टिः ॥२१॥
भानोः सुता केतुशताग्रजाता कृष्णा कुर्मूर्तिः सततं कुवेला । देवैर्नियुक्ता करणार्थसंस्था विष्टिस्तु सर्वत्र विसर्जनीया ॥२२॥
मुखे तु घटिकाः पञ्च द्वे कंठे तु सदा स्थिते । हृदि चैकादश प्रोक्ताश्वतस्त्रो नाभिमंडले ॥२३॥
काट्यां पञ्चैव विज्ञेया स्थिस्त्रः पुच्छे जयावहाः । मुखे कार्यविनाशाय ग्रीवायां धनानाशिनी ॥२४॥
हृदि प्राणहरा ज्ञेया नाभ्यां तु कलहावहा । कट्यामर्थपरिभ्रंशो विष्टिपुच्छे ध्रुवो जयः ॥२५॥
पृथिव्यां यानि कार्याणि सुशुभान्यशुभानि च । तानि सर्वाणि सिद्धयंति विष्टिपुच्छेन संशयः ॥२६॥
धन्या दधिमुखी भद्रा महामारी खरानना । कालरात्रिर्महारुद्रा विष्टिश्व कुलपुत्रिका ॥२७॥
भैरवी च महाकाली असुराणां क्षयंकरी । द्वादशैव तु नामानि प्रातरुत्थाय यः पठेत् ॥२८॥
न च ध्याधिर्भवेत्तस्य रोगी रोगात्प्रमुच्यते । ग्रहाः सर्वेऽनुकूलाः स्युर्न च विघ्नादि जायते ॥२९॥
रणे राजकुले द्यूते सर्वत्र विजयी भवेत् । यश्व पूजयते नित्यं शास्त्रोक्तविधिना नरः ॥३०॥
तस्य सर्वार्थसिद्धिस्तु भवतीह न संशयः । येनोपवासाविधिना व्रतेम च यशास्विनी ॥३१॥
पूजिता तुष्ठिमभ्येति तदेव कथयामि ल्ते । यस्मिन्दिने भवेद्भद्रा तस्मिन्नहनि भारत ॥३२॥
उपवासस्य नियमं कुर्यान्नारी नरोऽथवा । यदि रात्रौ भवोद्विष्टिरेकभुक्तं दिनद्दयम् ॥३३॥
कार्य तेनोपन्नासः स्याद्दिति पौराणिकी श्रुतिः । प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम ॥३४॥
तत्रोपवासः कर्तव्य एकभुक्तमतोऽन्यथा । सर्वौषध्य्दकस्त्रानं सुगंधामलकैरथ ॥३५॥
नद्यां तडागेऽथ गृहे जां सर्वत्र शस्यते । देघान्पितृन्प्रीणयित्वा ततो दर्भमर्यी शुभाम् ॥३६॥
विष्टिं कृत्या पुष्पधूपैर्नैवेद्येन च पूजयेत् । होम्म कृत्वा विष्टिना मैरटोत्तरशतं ततः ॥३७॥
भुञ्जीत दत्वा विप्राय तिलान्पावसमेष च । सातिलां कुशरां भुक्त्वा पञ्चाद्धुञ्चीतकानतः ॥३८॥
छायासूर्यसुते देविविष्टिरिष्टार्थदायिनि । पूजिताऽसि यथाशक्त्या भद्रे मद्रप्रदा मधा ॥३९॥
उपोष्य विधिनानेन दशसप्त यथाक्रमम् । उग्रापनं ततः कुर्वात्पूर्ववत्पूज्य भाजिनीम् ॥४०॥
स्यापयिस्त्वायसे पीठे कृशरात्रं निदेय च । परिधाप्य कृष्णचुजं स्तुत्वा मंत्रेण तां पुनः ॥४१॥
प्राह्यणाय पुनर्दद्याल्लोहं तैलं तिलांस्तथा । कृष्णां सवत्सां मामेकां तथैकं कालकंपलय ॥४२॥
एक्षितां च यथाशक्त्या दत्वा भद्रां विसर्जयेत् । य एचं कुरुते पार्थ सम्पण्भद्राव्रतं जरः ॥४३॥
विधं न जायते तस्य कार्यारंभे कदाचन । राक्षसाद्ध पिशाचा वा पूतना शाकिनीब्रह्माः ॥४४॥
स पीडयन्ति तं मर्त्ये यो भद्राव्रत माचरेत् । मप्वेवेष्टायोजः स्थाय हानिस्तस्थ जायते ॥४५॥
देहांते याति सदनं मस्करल्य न संशयः ॥४६॥
सूर्यात्मजेति दयिता भगिनी शनेर्प्पा मर्त्ये भ्रमत्यतिरथाकरणक्रमेण । तां कृष्नभासुरमुखीं समुपोष्य विष्ठिसिदार्थसिद्धिमजुधोऽपिपुमानुपैति ॥४७॥ [ ४९७२ ]
इति श्रीभविष्ये महापुराणे उत्तरषवीर्णि श्रीकृष्णयुधिष्ठिरसंवादे विष्ठिव्रतवर्णन नाम सप्तदशोत्तरशततमोऽध्यायः ॥११७॥