श्रीकृष्ण उवाच ॥
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् । यत्प्रदानान्नरो याति सोमलोक नरोत्तम ॥१॥
सहस्त्रेण पलालां तु उत्तमी रजताचलः । पंचभिर्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः ॥२॥
अशक्तोविंशतेरुर्ध्वकारयेद्भक्तितः सदा । विष्कंभपर्वतांस्तद्वत्तुरांयांशेन कल्पयेत् ॥३॥
पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः । कलधौतमयांस्तद्वल्लोकेशान्कारयेन्नृप ॥४॥
ब्रह्मविष्णुवर्कवान्कार्यानितंबोऽत्र हिरण्मयः । राजतं स्याद्यदन्येषा सर्व तदिह कांचनम् ॥५॥
शेषं च पूर्ववत्कृत्वा होमजागरणादिकम् । दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम् ॥६॥
विष्कंभशैलानृत्विग्भ्यः पूजयेच्च विभूषणैः इम मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः ॥७॥
पितृणां यस्माद्धर्मदं शंकरस्य च । रजतं पाहि तस्मान्नो घारोत्संसारसागरात् ॥८॥
इत्थं निवेश्य योदद्याद्रजताचलमुत्तमम । गवामयुतदानस्य फलं प्राप्नोति । मानवः ॥९॥
सोमलोके स गंधर्वकिंनराप्सरसांगणैः । पूज्यमानो वसेद्विद्वान्यावदाभूतसंप्लवम् ॥१०॥
राजेश राजतगिरिं कनकोपलादिच्छन्नं प्रसन्नसलिलैः सहितं सरोभिः । यच्छंति ये सुकृतिनो विरजो विशोकं गच्छंति ते गतमला नृप सोमलोकम् ॥११॥ [ ७८९४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे रौप्यचलदानविधिवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ॥२०३॥