श्रीकृष्ण उवाच ॥
कृष्णाष्टमीव्रतं पार्थ शुणु पापभयापहम् । धर्मसंजननं लोके रुद्रप्रीतिकरं परम् ॥१॥
मासि मार्गाशिरे प्राप्ते दन्तधावनपूर्वकम् । उपवासस्य नियमं कुर्यान्नक्तस्य व पुनः ॥२॥
अशक्तशक्तभेदेन गृहान्निष्क्रम्य बाह्यतः । कृष्णाष्टम्यां वर्षमेकं गुरुं पृष्ट्वा विचक्षणः ॥३॥
ब्रह्मचारी जितक्रोधः शिवार्चनजपे रतः । ततोऽपराहृसमये स्त्रात्वा नद्यां विशुद्धधीः ॥४॥
शिवलिङगं समभ्यर्च्य सुमनोभिः सुगन्धिभिः । गुग्गुलुं च शुभं दग्ध्वा दद्यान्नैवेद्यमुत्तमम् ॥५॥
ततो देवस्य पुरतो होमं कुर्यात्तिलैर्गुरुः । मार्गशीर्षे शुभे मासि शंकरेत्यभिपूजयेत् ॥६॥
गोमूव्रप्राशनं कृत्वा ततो भूपौ निशि स्वपेत् अतिराव्रस्य यज्ञप्त्य फलमान्पोति मानवः ॥७॥
एवं पुष्येयि संपूज्य शंभुं नाम महेश्वरम् । कृष्णाष्टभ्यां घृतं प्राश्य वाजपेयफलं भवेत् ॥८॥
माघे माहेश्वरं नाम कृष्णाष्टभ्यां प्रपूजयेत् । निशि पीत्वा गवां क्षीरं गोमेधाष्टकमान्पुयात् ॥९॥
फाल्गुने च महादेवं संपूज्य प्राशयेत्तिलान् । राजसृयस्य यज्ञस्य फलमष्टगुणं भवेत् ॥१०॥
चैव्रे च स्थाणुनामानं कृष्णाष्टम्यांशिवं यजेत् । यवाहारोऽश्वमेधप्त्य यज्ञस्य फलमान्पुयात् ॥११॥
वैशाखे शिवनामानमिष्ट्र्वा राव्रौ कुशोदकम् । पीत्व्रा पुरुषमेधस्य फलं दशगुणं भवेत् ॥१२॥
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गादकं पिबेत् । गवां लक्षप्रदानस्य नरः फलमवान्प्रुयात् ॥१३॥
आषाढे चोग्रनामानमिष्ट्र्वा संप्राश्य गोमयम् । वर्षाणां नियुतं साग्रं रुद्रलोके महीपते ॥१४॥
आवणे शर्वनामानमिष्ट्र्वार्कंनिरी भक्षयत् । बहुस्वर्णस्य यज्ञस्य नरः फलमवान्पुयात् ॥१५॥
मासि भाद्रपदेऽष्टम्यां व्र्यम्बकं नाम पुजयेत् । बिल्वपव्रं निशिप्राश्य अन्नदीक्षाफल लभेत् ॥१६॥
भवनामाश्विने पुज्यः प्राशयेत्तन्दुलोदकम । पौण्डरीकस्य यज्ञस्यफलं शतगुणं लभेत् ॥१७॥
कार्तिके रुद्रनामानं संपूज्य प्राशयेद्दधि । अग्निष्टोमस्य यज्ञस्य फलं प्रान्पोति मानवः ॥१८॥
अब्दान्ते भोजयेद्विप्राञ्छिवभक्तिपरायणान् । पायसं मधुसंयुक्त घृतेन समभिप्लुतम् ॥१९॥
शक्त्या हिरन्यवासांसि भक्त्या तेभ्यो निवेदयेत् । सतिलाः कृष्णकलशा भक्ष्यभोज्येन संयुताः ॥२०॥
द्वादशाव्र प्रदातव्याश्छव्रोपानद्युगान्विताः । निवेदयोत रुद्राणां गां च कृष्णां पयस्विनीम् ॥२१॥
वर्षमेकं चरेदेवं नैरन्तर्येण यो नरः । कृष्णाष्टमीव्रतं भक्त्या तस्य पुण्यफलं शृणु ॥२२॥
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः । मोदते भूपवन्नित्यं मर्त्यलोके शतं समाः ॥२३॥
अनेन विधिना देवाः सर्वे देवत्वमागताः । देवी देवत्वमापन्ना गुहः स्कन्दत्वमागतः ॥२४॥
ब्रह्मा ब्रह्मत्वमापन्ना ह्यहं विष्णुत्वमागतः । इन्द्रश्व देवराजत्व गणो गणपतो गतः ॥२५॥
नारी वा पुरुषो वापि कृत्वा कृष्णाष्टमीव्रतम् । अखण्डिलं महाराज पुण्यं प्रान्पोत्यनुत्तमम् ॥२६॥
सृर्यकोटिय काशैर्विमौनः सर्वकामिकैः । रुद्रकन्यासमाकीर्णैर्हंससारससंयुतैः ॥२७॥
नृत्यव्रादिव्रसंयुक्तैरुत्कृष्टध्व्रनिनादितैः । दोधूयमानश्वमरैः स्तूयमानः सुरासुरैः ॥२८॥
व्रिनेव्रः शूलपाणिश्व शिवैश्वर्यसमन्वितः । आस्ते शिवपुर तावद्यावत्कल्पेषु चाष्टकम् ॥२९॥
इत्येतत्ते समाख्यातं पार्थ कृष्णाष्टमीव्रतम् । यच्छुत्वा सर्वपापेभ्यो मुच्यते नाव्र संशयः ॥३०॥
कृष्णाष्टमीव्रतमिदं शिवभावितात्मा उक्ताशनैरुदितनामयुतैरुपोष्य । कृष्णान्ददाति कलशान्सतिलान्नयुक्तान्योसौ प्रयाति पदमुत्तममिन्दुमौलेः ॥३१॥ [ २३२५ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कृष्णाष्टमीव्रतवर्णनं नाम सप्तयञ्चाशत्तमोऽध्याय ॥५७॥