श्रीकृष्ण उवाच ॥
शृणु पार्थ परं दानं सर्वकिल्बिषनाशनम् । यद्दत्त्वा त्रिविधं पापं सद्यो विलयमृच्छति ॥१॥
सुवर्णरोमां सौवर्णी प्रत्यक्षं वा सुशोभनाम् । सुवर्णतिलकोपेतां सर्वालंकारभूषिताम् ॥२॥
कौशेयपरिधानां च दिव्यचंदनभूषिताम् । दिव्यपुष्पोपहारां च सर्वधातुरसैर्युताम् ॥३॥
सप्तधान्यसमायुक्तां फलपुष्पवतीम तथा । शतेन कारयेत्तां च सुवर्णस्य प्रयत्नतः ॥४॥
यथाशक्त्याथवा कुर्याद्वितशाठ्यं नकारयेत् । अयने विषूवे चैव ग्रहणे शशिसूर्ययोः ॥५॥
दुःस्वप्नदर्शने चैव जन्मर्क्षे पितृसंक्षये । यदा वा जायते विनं चित्तं श्रद्धासमन्वितम् ॥६॥
तदैव दानकाल्ह स्याद्यतोऽनित्यं हि जीवितम् । दद्यातीर्थे गृहे वापि यत्र वा रमते मनः ॥७॥
तत्र संस्थाप्य देवेशमुमया सह शडकरम् । ब्रह्माणं सह गापव्वा सश्रीकं श्रीधरं तथा ॥८॥
स्त्या सह तथानंगं लोकपालान्ग्रहानपि । संपूव्यै च विधानेन गंधपुष्पनिवेदनैः ॥९॥
तदग्रे कारयेद्धोमं तिलाज्येन महीपते । अलंकृत्य द्विजं शान्तं वासोभिः प्रतिपूज्य च ॥१०॥
तल्लिङ्गमंत्रैर्होमश्व कर्तव्यो ज्वलितेऽनले । ततस्तां तिलकुंभारथा लवणान्तरुपस्थिताम् ॥११॥
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् । रोमत्वङ्गमांसज्जावैः सर्वोपकरणै सदा ॥१२॥
जगतः संग्रवर्द्धसि त्वामतः प्रार्थये स्थिताम् । वाङ्रमनःकायननितं यत्किञ्चिन्मम दुष्कृतम् ॥१३॥
तत्सर्व विलयं यतु तव दानात्प्रेसेवितम् । एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुंबिने ॥१४॥
नाभिभाषेत तं दत्त्वा मुखं च नावलोकयत् । दुष्टप्रतिग्रहहतो विप्रो भवति पातकी ॥१५॥
नो दद्याद्दक्षिणाहीनां दातव्या सा विधानतः । दक्षिणाविधिना हीना दुःखशोकावहा भवेत् ॥१६॥
पुरा दत्तमिदं दानं गौर्या शंकरकाम्यया । तेन शंभुः पतिर्लब्धः सर्वदेवनमस्कृतः ॥१७॥
इन्द्राण्या स्वर्णरोमाणां शतं दत्तं विधानतः । सर्वदेवपतिं प्राप्य पतिं साद्यापि मोदते ॥१८॥
नलेन दत्तमतद्धि राज्यं कृत्वा दिवं गतः । रुक्मिण्याहं पीतलंब्धः सौभायमतुल तथा ॥१९॥
दानस्यास्य प्रभावेण पुत्रा बहुबलान्विताः । अपुत्रो लभते पुत्रमधनो लभते धनम् ॥२०॥
दत्त्वा दाने शुभां कांतिं विपुलां च तथा श्रयम् । य इमं शृणुयान्नित्यं दानकल्पमनुत्तमम् । अहोरात्रकृतात्पापान्मुच्यते नात्र संशयः ॥२१॥
मेषी विशेषकलुषापहरातिशस्ता दान सदैव रसधातुयुता सधान्या । तामादरेण कुरुन दन देहि दत्त्वा येनास्तपापतिमिः सवितेव मासि ॥२२॥ [ ७१२९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अविदानव्रतविधिवर्णनं नाम त्रिषष्टयुत्तरशततमोऽध्यायः ॥१६३॥