युधिष्ठिर उवाच ॥
प्रतिष्ठा शाश्वती कन दानेन मधुसुदन । इह लोके परे चैव कीर्तिरत्यद्धुता तथा ॥१॥
सद्नतिं च तथा यांति सर्वे पितइपितामहाः । संततिश्वाक्षया लोके विभवश्वापि पुष्कलः ॥२॥
स्थापनात्सर्वदेवानां कथं स्याद्यदुनंदन । तदाचक्ष्व महाभाग दानेन नियमेन वा ॥३॥
श्रीकृष्ण उवाच । साधु पुष्टं त्वया राजँल्लोकानामुपकारकम । श्रृणुष्वैकमना भूत्वा गृह्यं परममुत्तनम ॥४॥
भुवणानां समासेन प्रतिष्ठां कथयामि ते । देवासुरारतथा नागा गंधर्वा यक्षराक्षसाः प्रेताः ॥५॥
पिशाचा भूताश्व स्थापिताः स्युर्न संशयः कारकस्यानुकूले तु मुहूर्ते विजये शुभे ॥६॥
पुण्ये तिथौ शिवक्षेत्रे दिने सौम्यग्रहान्विते । सप्तहत्तं पटं कृत्वा चतुरस्त्रं सुसंहतम् ॥७॥
अभिन्नांगं दृढं शुद्धं शुद्धस्फटिकवर्चसम् । तस्मिन्सर्वाणि राजेंद्र भुवनानि च लेखयेत् ॥८॥
चातुर्वणकमानीय विचित्रं चित्रकर्मणि । युवानं व्याधिरहितं भव्यं चित्रकरं शुभम् ॥९॥
संपूजयित्वा यत्नेन दिव्यवासोभिभूषणैः । तस्मिकर्मणि युंजीत पठ्यमानैर्द्विजोत्तमैः ॥१०॥
शंखभेरीनिनादैश्व गीतमंगलनिरवनैः । पुण्याहजयघोषैश्व ब्राह्मणान्पूजयेत्ततः ॥११॥
आचार्यमपि संपूज्य वासोभिर्भूषणैस्तथा । प्रारंभं कारयेद्राजन्पटे तस्मिन्यथोदितम् ॥१२॥
मध्ये च लेखयेद्राजञ्जबूद्वीपंसविरतरम् । तस्य मध्ये स्थितो मेरुर्मेरोरुपरि देवताः ॥१३॥
दिशासु लोकपालानां पुरोऽश्तौ सुरसंयुताः । सप्तद्वीपवती पृथ्वी सप्त चैव कुलाचलाः ॥१४॥
सागराः सप्त चात्रैव नद्यो हृदाः सरांसि च । पातालाः सप्तचात्रैव सप्तस्वर्गविभूतयः ॥१५॥
ब्रह्मविष्णुशिवादीनां भुवनानि यथाक्रमम । ध्रुवमार्गस्तथादित्यो ग्रहतारागणैर्युतः ॥१६॥
देवदानवगंधर्वायक्षराक्षराक्षसपन्नगाः । ऋषयो मुनयो गावो देवमातर एव च ॥१७॥
सुपर्णाद्याश्व विहगा नांगश्वैरावतादयः । दिग्गजाष्टकामत्रैवर्लखयेन्मदमंडितम् ॥१८॥
एवं विधं पटं राजन्कारयित्वा सुशोभनम् । दशोत्तरेण पयसा एतत्सर्वसमावृतम् ॥१९॥
तत्तेजसा बृतं भूयो महतोग्रेण सर्वतः । तेजस्तद्वा युना वायुराकाशेन समावृतः ॥२०॥
भूत दिना तथाकाशं भूतादिर्महता तथा । अव्यक्तेम महांश्वैव व्याप्तोवै शुद्धिलक्षणः ॥२१॥
अव्यक्तं तमसा व्याप्तं तमश्व रजसा तथा । रजः सत्वेन संव्यातं त्रिधाप्रकृतिच्यते ॥२२॥
एवम वरणोपेतं ब्रह्मांडमखिलं नृप । पुरुषेणावृतं सर्व सबाह्यभ्यंतर तथा ॥२३॥
एतत्सर्व पटस्थं तु कृत्त्वा चित्रमयं सुधीः । कार्तिक्यामयने चैव विषुवे ग्रहणेऽपि वा ॥२४॥
पूजयेग्रेन विधिता तत्समासेन मे शृणु । पुरतो मंडपं तस्य विचित्र कारयेद्बुधः ॥२५॥
तत्र कुण्डानि चत्वारि चतुरस्त्राणि कारयेत् । द्वौ द्वौ नियोजयेत्तेषु ब्राह्मणौ वेदपारगौ ॥२६॥
यज्ञोपकरणोपेतौ वस्त्राभरणभूषितौ । होमं कुर्युर्जितात्मानो मौनिनः सर्व एव ते ॥२७॥
पटे स्थितानां देवानां मत्रैरो कारपूर्वकैः । यजमानस्ततः स्त्रातः सर्वालंकारभूषितः ॥२८॥
आचार्येण समं कुर्यात्पूजामग्रे पटस्य तु । पुष्पैर्वस्त्रैः समभ्यर्च्य मंत्रमेतमुदीरयेत ॥२९॥
ब्रह्मांडोदरवर्तीनि भुवनानि चतुर्दश । तानि संनिहितान्यत्र पूजितानि भवंतु मे ॥३०॥
ब्रह्मा विष्णुस्तथारुद्रो ह्रादित्यावसवस्तथा । पूजिताः सुप्रतिष्ठाश्व भवंतु सततं मम ॥३१॥
एवं पट तं संपूज्य कृत्वा चैव प्रदक्षिणम् । भक्ष्यान्नानविधांश्वैव नैवेद्यं तत्र दापयेत ॥३२॥
शंखनूर्यनिनादैश्व जागरं कारयेत्ततः । ब्रह्मघोषैर्विचित्रैश्व गीतमंगलानस्वनैः ॥३३॥
पुनः प्रभाते विमले स्त्रात्वा शुचिरलंकृतः । पूर्वोक्तविधिनानेन पुनः संपूज्य तं पटम् ॥३४॥
ऋत्विक्पूजां ततः कृत्वा गोशतेन विचक्षणेः । अथवा गोयुगंदद्यादेकैकस्याप्यलंकृतम् ॥३५॥
उपानहौ तथा छत्रं गृहोपकरणानि च । यद्यदिष्टतमं किंचित्सर्व दद्याद्विचक्षणः ॥३६॥
ततः प्रकल्पयेद्यानं नागयुक्तमलकृतम ।अलाभे वाजिसंयुक्तं पताकाध्वजशालिनम् ॥३७॥
सहस्त्रं दक्षिणां दत्त्वा ततस्त्वारोपयेत्पटम् । ब्राह्मणं वा रथेनाथ नयेद्देवालय्म बुधः ॥३८॥
तत्रस्थं स्थापयेन्नीत्वा गंधैः पुष्पैश्व पूजयेत् । तत्रापि दद्यान्नैवेद्यं कुर्याच्चपि महोत्सवम ॥३९॥
यस्मिन्नयतने तस्य प्रतिष्ठा क्रियते नृप । पूजा तत्रापि महती कर्तव्या भूतिमिच्छता ॥४०॥
चंद्रातपत्रं घंटां च ध्वजाद्ये दापयेत्सुधीः । यथा शक्त्या च राजेंद्र गुरु गौरवयंत्रितः ॥४१॥
अभ्यर्च्य दक्षिणाभिश्व ब्राह्मणांश्व विसर्जयेत् । दीनांधकृपणानां च भोजनं चाप्यवारितम् ॥४२॥
कुर्यान्नरो वा नारी वा प्रतिष्ठां सार्वलौकिकीम् । स्थापितं तु भवेत्तेन त्रैलोक्य सचराचरम् ॥४४॥
कुलं च तारितं तेन सत्पुत्रेण युधिष्ठिर । यावच्च देवतागारे पटस्थिष्ठति पूजितः ॥४५॥
तावदस्याक्षयाकीर्तिस्त्रैलोक्ये संप्रसर्पति । दानेन कीर्तिर्यावंतिमर्त्यलोकेषु मीयते ॥४६॥
तावद्धर्षसहस्त्राणि स्वर्गलोके महीयते । गंधर्वैर्गीयमानस्तु अप्सरोगणसेविथ ॥४७॥
वसेद्धृष्टमनाः स्वर्गे यावदिंद्राश्वतुर्दश । पुण्यक्शयादिहाभ्येत्य राजा भवति धार्मिकः ॥४८॥
पुत्रपौत्रान्वितः श्रीमान्दीर्घायुरातिधार्मिकः । दश जन्मानि राजेंद्र जायमानः पुनः पुनः ॥४९॥
श्रूयते च पुरा राजा रजिर्नाममहाबल ।चक्रवर्ती दृढमतिर्जितारिवर्विजितेंद्रियः ॥५०॥
मही येन पुरा दत्ता देवराजस्य संगरे । जित्वा दैत्यबलं सर्व दत्तवांस्त्रिदिवं पुनः ॥५१॥
महेंद्राय महाभाग सर्व निहतकंटकम् । स कदाचि त्सभामध्ये यावदास्ते महीपतिः ॥५२॥
तावत्तत्राजगामाथ पुलस्त्यो ब्रह्मणः सुतः । शिष्यैः परिवृतः श्रीमान्वेदवेदांगपारगैः ॥५३॥
दत्तार्घस्तु तदा तेन उपविष्टो वरासने । शुशुभे परया लक्ष्म्या पितामह इवापरः ॥५४॥
अथ तं पूजयित्वाग्रे सधुपर्केण पार्थिवः । पप्रच्छ विनयोपेतः कथामात्मोद्भवां मृपः ॥५५॥
भगवन्केन दानेन तपसा नियमेन वा । श्रीरियं मम धर्मज्ञ तेजश्वाव्याहतं भुवि ॥५६॥
बलं पुष्टिं घनं धान्यं पुत्रपौत्रंतथोत्तमम् । एतमे सर्वमाचक्ष्व सर्वज्ञोऽसि द्विजोत्तम ॥५७॥
पुलत्स्य उवाच ॥ श्रृणु राजन्कथामेतामात्मीयां सुमनोहराम् । कथ्यमानां मया सम्यक्सप्तमे तव जन्मनि ॥५८॥
कथेयमभिनिर्वृता शृणुष्वैश्वर्यवद्धिनीम् । असीस्त्वं वैश्यजातीयो वारणस्यां नरोत्तम ॥५९॥
बहुभृत्यपरीवारोधनधान्यसमन्वितः । धार्मिकः सत्यनिरतो वणिग्धर्मरतः सदा ॥६०॥
तत्र त्वया श्रुता पर्मारधर्माख्यानगतेन वै दान श्रया बहुविधा व्रतानि विविधानि च ॥६१॥
प्रसंगेन कदाचिच्च प्रतिष्ठा भौवनी त्वया । श्रुताराजेन्द्र विधिवत्कृता च बहुपुण्यदा ॥६२॥
फलेन तेन जातोऽस सप्त जन्मनि भूपतिः । कीर्तिस्ते प्रथिता लोके बलं चापि महत्तव ॥६३॥
अपराण्यपि जन्मानि सप्त राजा भविष्यसि । पश्वाद्योगिकुले भूत्वा निर्वाणं समवाप्स्यसि ॥६४॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । नारी वा पुरुषा वापि प्रतिष्ठां भौवनीं तु यः ॥६५॥
प्रकरोति विधानेन कृतकृत्यो भवेद्बुधः । इत्युक्त्या स मुनिस्तत्र राजानं शंसितव्रतः ॥६६॥
ययावदशनं तत्र सूर्यवैश्वानरोपमः ॥६७॥
धर्मविवर्द्धयति कीर्तिशतानि धत्ते कामं प्रसाधयति पापमपाकरोति । ख्याता मयेयमधुना तव दान निष्ठा तन्नास्ति यन्न कुरुते भुवनप्रतिष्ठा ॥६८॥ [ ७६०० ]
इति श्रीभविष्ये महापुराणं उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भुवनप्रतिष्ठावर्णनंनामैकनवत्युत्तरशततमोऽध्यायः ॥१९१॥